________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ / / 332 // मागच्छित्तते 1, अहुणोववन्ने णेरइए निरतलोगंसि णिरयपालेहिं भुजो 2 अहिट्ठिजमाणे इच्छेज्जा माणुसं लोग हव्वमागच्छित्तते, णो चेवणं संचातेति हव्वमागच्छित्तते 2, अहुणोववन्ने णेरइए णिरतवेयणिज्जंसि कम्मंसि अक्खीणंसि अवेतितंसि अणिजिन्नसि इच्छेजा०, नोचेवणं संचाएइ 3, एवं णिरयाउअंसि कम्मंसि अक्खीणंसि जाव णो चेवणं संचातेति हव्वमागच्छित्तते 4, इच्चेतेहिं चउहिं ठाणेहिं अहुणोववन्ने नेरतिते जाव नोचेवणं संचातेति हव्वमागच्छित्तए ४॥सूत्रम् 245 // कप्पंति णिग्गंथीणं चत्तारि संघाडीओधारित्तए वा परिहरित्ततेवा, तं०- एगंदुहत्थवित्थारं, दो तिहत्थवित्थारा एगचउहत्थवित्थारं ॥सूत्रम् 246 // चउविहे त्यादि, वनस्पतिः प्रतीतः स एव कायः- शरीरं येषां ते वनस्पतिकायास्त एव वनस्पतिकायिकास्तृणप्रकारा वनस्पतिकायिकास्तृणवनस्पतिकायिका बादरा इत्यर्थः, अगं बीजं येषां ते अग्रबीजाः- कोरिण्टकादयः, अग्रे वा बीजं येषां तेऽग्रबीजा-व्रीह्यादयः, मूलमेव बीजं येषां ते मूलबीजा- उत्पलकन्दादयः, एवं पर्वबीजा- इक्ष्वादयः, स्कन्धबीजाःसल्लक्यादयः, स्कन्धस्थुडमिति, एतानि च सूत्राणि नान्यव्यवच्छेदनपराणि, तेन बीजरुहसम्मूर्च्छनजादीनां नाभावो मन्तव्यः सूत्रान्तरविरोधादिति / अनन्तरं वनस्पतिजीवानांचतुःस्थानकमुक्तम्, अधुना जीवसाधान्नारकजीवानाश्रित्य तदाह- चउही त्यादि सुगमम्, केवलं ठाणेहिं ति कारणैः अहुणोववन्ने त्ति अधुनोपपन्न:- अचिरोपपन्नः, निर्गतमयं-शुभमस्मादिति निरयोनरकस्तत्र भवो नैरयिकस्तस्य चानन्योत्पत्तिस्थानतां दर्शयितुमाह-निरयलोके, तस्मादिच्छेन्मानुषाणामयं मानुषस्तं लोकंक्षेत्रविशेष हव्वं शीघ्रमागन्तुम्, नो चेव त्ति नैव, णं वाक्यालङ्कारे, संचाएइ सम्यक् शक्नोति आगन्तुम्, समुन्भूयं ति समुद्भूतांअतिप्रबलतयोत्पन्नां पाठान्तरेण सम्मुखभूतां एकहेलोत्पन्नां पाठान्तरेणामहतो महतो भवनं महद्भूतं तेन सह या सा समहद्भूता चतुर्थमध्ययन चतुःस्थानम्, प्रथमोद्देशकः सूत्रम् 244-246 अग्रबीजादिवनस्पति| भेदाः, नारकानागमनकारणानि, निर्ग्रन्थीसङ्काट्यः // 332 //