SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ चतुर्थमध्ययनं चतुःस्थानम्, प्रथमोद्देशकः सूत्रम् 243 त्वक्खादादिघुणोपमभिक्षुचतुर्भङ्गी // 330 // सुइरूवे इत्येतत्सूत्रद्वयं दृष्टान्तदान्तिकोपेतम्, सुइमणे इत्यादिच पुरुषमात्राश्रितमेव सूत्रसप्तकमतिदिशन्नाह-एव मित्यादि कण्ठ्यम् / पुरुषाधिकार एवेदमपरमाह-चत्तारि कोरवे इत्यादि, तत्र आम्रः- चूतस्तस्य प्रलम्बः- फलंतस्य कोरकं-तन्निष्पादक मुकुलमाम्रप्रलम्बकोरकम्, एवमन्येऽपि, नवरं-तालोवृक्षविशेषः, वल्ली-कालिङ्ग्यादिका, मेंढविषाणा- मेषशृङ्गसमानफला वनस्पतिजातिराउलिविशेष इत्यर्थः, तस्याः कोरकमिति विग्रहः, एतान्येव चत्वारि दृष्टान्ततयोपात्तानीति चत्वारीत्युक्तम्, न तु चत्वार्येव लोके कोरकाणि, बहुतरोपलम्भादिति, एवे त्यादि सुगमम्, नवरमुपनय एवं- यः पुरुषः सेव्यमान उचितकाले उचितमुपकारफलं जनयत्यसावाम्रप्रलम्बकोरकसमानः, यस्त्वतिचिरेण सेवकस्य कष्टेन महदुपकारफलं करोति स तालप्रलम्बकोरकसमानः, यस्तु अक्लेशेनाचिरेण च ददाति स वल्लीप्रलम्बकोरकसमानः, यस्तु सेव्यमानोऽपिशोभनवचनान्येव ब्रूते उपकारंतुन कञ्चन करोति समेण्ढविषाणकोरकसमानस्तत्कोरकस्य सुवर्णवर्णत्वादखाद्यफलदायकत्वाच्चेति // पुरुषाधिकार एव घुणसूत्रं चत्तारि घुणा पं० तं०- तयक्खाते छल्लिक्खाते कट्ठक्खाते सारक्खाते, एवामेव चत्तारि भिक्खागा पं० तं०- तयक्खायसमाणे जाव सारक्खायसमाणे, तयक्खातसमाणस्सणं भिक्खागस्ससारक्खातसमाणे तवे पण्णत्ते, सारक्खायसमाणस्सणं भिक्खागस्स तयक्खातसमाणे तवे पण्णत्ते, छल्लिक्खायसमाणस्स णं भिक्खागस्स कट्ठक्खायसमाणे तवे पण्णत्ते, कट्टक्खायसमाणस्स णं भिक्खागस्स छल्लिक्खायसमाणे तवे पण्णत्ते ॥सूत्रम् 243 / / त्वचं-बाह्यवल्कं खादतीति त्वक्खाद एवं शेषा अपि, नवरं छल्लित्ति अभ्यन्तरं वल्कं काष्ठं-प्रतीतंसार:- काष्ठमध्यमिति दृष्टान्तः, एवमेवे त्याधुपनयसूत्रम्, भिक्षणशीला भिक्षणधर्माणो भिक्षणे साधवो वा भिक्षाकाः, त्वक्खादेन घुणेन समानोऽ // 330 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy