SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 329 // वत्थेणं भणितं तहेव सुतिणावि, जाव परक्कमे।सूत्रम् 241 // चत्तारि कोरवा पं० तं०- अंबपलंबकोरवे तालपलबकोरवे वल्लिपलंबकोरवे मेंढविसाणकोरवे, एवामेव चत्तारि पुरिसजाता पं० तं०- अंबपलंबकोरवसमाणे तालपलबकोरवसमाणे वल्लिपलबकोरवसमाणे मेंढविसाणकोरवसमाणे॥सूत्रम् 242 // चत्तारि सुतेत्यादि, सुताः-पुत्राः अइजाए त्ति पितुः सम्पदमतिलभ्य जात:- संवृत्तोऽतिक्रम्य वा तांयात:-प्राप्तो विशिष्टतरसम्पदं समृद्धतर इत्यर्थ इत्यतिजातोऽतियातो वा, ऋषभवत्, तथा अणुजाए त्ति अनुरूपः, सम्पदा पितुस्तुल्यो जातोऽनुजातोऽनुगतो वा पितृविभूत्याऽनुयातः, पितृसम इत्यर्थः, महायशोवद्, आदित्ययशसा पित्रा तुल्यत्वात्तस्य, तथा अवजाए त्ति अप इत्यपसदो हीनः पितुः सम्पदो जातोऽपजातः पितुः सकाशादीषद्धीनगुण इत्यर्थ आदित्ययशोवद्, भरतापेक्षया तस्य हीनत्वात्, तथा कुलिङ्गाले त्ति कुलस्य- स्वगोत्रस्याङ्गार इवाङ्गारो दूषकत्वादुपतापकत्वाद्वेति कण्डरीकवत्, एवं शिष्यचातुर्विध्यमप्यवसेयम्, सुतशब्दस्य शिष्येष्वपि प्रवृत्तिदर्शनात् तत्रातिजातः सिंहगिर्यपेक्षया वैरस्वामिवद्, अनुजातः शय्यंभवापेक्षया यशोभद्रवद्, अपजातोभद्रबाहुस्वाम्यपेक्षया स्थूलभद्रवत्, कुलाङ्गारः कूलवालकवदुदायिनृपमारकवद्वेति / तथा चत्तारी त्यादि, सत्यो यथावद्वस्तुभणनाद् यथाप्रतिज्ञातकरणाच्च, पुनः सत्यः संयमित्वेन सद्भ्यो हितत्वाद्, अथवा पूर्व सत्य आसीदिदानीमपि सत्य एवेति चतुर्भङ्गी। एवंप्रकारसूत्राण्यतिदिशन्नाह- एव मित्यादि व्यक्तम्, नवरमेवं सूत्राणिचत्तारि पुरिसजाया पं० तं०- सच्चे नाम एगे सच्चपरिणए 4, एवं सच्चरूवे 4 सच्चमणे 4 सच्चसंकप्पे 4 सच्चपन्ने 4 सच्चदिट्ठी 4 सच्चसीलायारे 4 सच्चववहारे 4 सच्चपरक्कमेत्ति 4, पुरुषाधिकार एवेदमपरमाह- चत्तारि वत्थे त्यादि शुचि-पवित्रं स्वभावेन पुनः शुचि संस्कारेण कालभेदेन वेति, पुरुषचतुर्भङ्गयां शुचिः पुरुषोऽपूतिशरीरतया पुनः शुचिः स्वभावेनेति, सुइपरिणए चतुर्थमध्ययन चतुःस्थानम्, प्रथमोद्देशकः सूत्रम् 240-242 अतिजातादिसूतचतुष्कम्, सत्यादिपुरुष भङ्गयः, पुरुषचतुर्भडयः
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy