________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 11 // क्रमेण गणनालक्षणस्थानविषयोऽयमेको गणना च सङ्ख्या, सङ्ख्या च गुणो गुणश्च भाव इति, स्थानस्य तु निक्षेप उक्त एव, तत्र च प्रथममध्ययनगणनास्थानेनेहाधिकारः, तत एकलक्षणंस्थानं-सङ्ख्याभेदएकस्थानंतद्विशिष्टजीवाद्यर्थप्रतिपादनपरमध्ययनमप्येकस्थान-8 मेकस्थानम्, सूत्रम् मिति, उक्तावोघनिष्पन्ननामनिष्पन्ननिक्षेपौ, सम्प्रति सूत्रालापकनिष्पन्ननिक्षेपः प्राप्तावसरः, तत्स्वरूपं चेदं-सूत्रालापकानां- संहितादिसूत्रपदानां श्रुतं मे आयुष्मन्नि'त्यादीनां निक्षेपो-नामादिन्यासः, सच अवसरप्राप्तोऽपि नोच्यते, सति हि सूत्रेऽसौ संभवति, व्याख्या, सूत्रं च सूत्रानुगमे, स चानुगमभेद एवेत्यनुगम एव तावदुपवर्ण्यते-द्विविधोऽनुगमो-निर्युक्त्यनुगमः सूत्रानुगमश्च, तत्र आद्यो श्रुतनिक्षेपाः 4, निक्षेपनिर्युक्त्युपोद्धातनियुक्तिसूत्रस्पर्शकनिर्युक्त्यनुगमविधानतस्त्रिविधः, तत्रच निक्षेपनियुक्त्यनुगमः स्थानाङ्गाध्ययनाघेक- आयुर्निक्षेपाः शब्दानां निक्षेपप्रतिपादनादनुगत एवेति, उपोद्घातनिर्युक्त्यनुगमस्तु- उद्देसे निद्देसे य निग्गमे (आव०नि० 140-41, विशेषाव 1484-85) इत्यादिगाथाद्वयादवसेय इति, सूत्रस्पर्शकनियुक्त्यनुगमस्तु संहितादौ षड्डिधे व्याख्यालक्षणे पदार्थपदविग्रहचालनाप्रत्यवस्थानलक्षणव्याख्यानभेदचतुष्टयस्वरूपः, स च सूत्रानुगमे संहितापदलक्षणव्याख्यानभेदद्वयलक्षणे सति भवतीत्यतः सूत्रानुगम एवोच्यते, तत्र च अल्पग्रन्थमहार्थादिसूत्रलक्षणोपेतं स्खलितादिदोषवर्जितं सूत्रमुच्चारणीयम्, तच्चेदं सुयं मे आउसं! तेणं भगवता एवमक्खायं / / सूत्रम् 1 // सुयं मे इत्यादि। अस्य च व्याख्या संहितादिक्रमेणेति, आह च भाष्यकार:- सुत्तं 1 पयं 2 पयत्थो 3 संभवतो विग्णहो 4 वियारो य 5 (चालनेत्यर्थः) / दूसियसिद्धी 6 नयमयविसेसओ नेयमणुसुत्तं // 1 // (विशेषाव० 1002) तत्र सूत्रमिति संहिता, सा Gसति सूत्रे तस्य संभवात् (मु०)। 0 स्पर्शिक० (मु०)। 0 सूत्रं पदं पदार्थः संभवतो विग्रहो विचारश्च / दूषितसिद्धिर्नयमतविशेषतो नेयमनुसूत्रम् // 1 // // 11