SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 322 // चतुर्थमध्ययन चतुःस्थानम्, प्रथमोद्देशकः सूत्रम् 235 अन्तक्रियाचतुष्कम् प्रव्रजितः प्रव्रज्यांप्रतिपन्नः, किंभूत इत्याह- संजमबहुले त्ति संयमेन- पृथिव्यादिसंरक्षणलक्षणेन बहुल:- प्रचुरो यः स तथा, संयमो वा बहुलो यस्य स तथा, एवं संवरबहुलोऽपि, नवरमाश्रवनिरोधः संवरः, अथवा इन्द्रियकषायनिग्रहादिभेद, एवं च संयमबहुलग्रहणं प्राणातिपातविरतेः प्राधान्यख्यापनार्थ, यतः- एक्कं चिय एत्थ वयं निद्दिटुंजिणवरेहिं सव्वेहिं। पाणाइवायविरमणमवसेसा तस्स रक्खट्ठा ॥१॥इति, एतच्च द्वितयमपि रागाद्युपशमयुक्तचित्तवृत्तेर्भवति, अत आह-समाधिबहुलः, समाधिस्तुप्रशमवाहिता ज्ञानादिर्वा, समाधिः पुनर्निःस्नेहस्यैव भवतीत्याह- लूहे रूक्ष:- शरीरे मनसि च द्रव्यभावस्नेहवर्जितत्वेन परुषः, लूषयति वा कर्ममलमपनयतीति लूषः, कथमसावेवं संवृत्त इत्याह- यतः- तीरट्ठी तीरं- पारं भवार्णवस्यार्थयत इत्येवंशीलस्तीरार्थी तीरस्थायी वा तीरस्थितिरिति वा प्राकृतत्वात् तीरटेत्ति, अत एव उवहाणवं ति उपधीयते- उपष्टभ्यते श्रुतमनेनेति उपधानं श्रुतविषयस्तपउपचार इत्यर्थस्तद्वान्, अत एव-दुक्खक्खवे त्ति दुःखं-असुखं तत्कारणत्वाद्वा कर्म तत् क्षपयतीति दुःखक्षपः, कर्मक्षपणं च तपोहेतुकमित्यत आह- तवस्सी ति तपोऽभ्यन्तरं कर्मेन्धनदहनज्वलनकल्पमनवरतशुभध्यानलक्षणमस्ति यस्य स तपस्वी, तस्स णं ति यश्चैवंविधस्तस्य णं वाक्यालङ्कारे नो तथाप्रकारं- अत्यन्तघोरं वर्द्धमानजिनस्येव तपः- अनशनादि भवति, तथा नो तथाप्रकारा- अतिघोरैवोपसर्गादिसम्पाद्या वेदना-दुःखासिका भवति, अल्पकर्मप्रत्यायातत्वादिति, ततश्च तत्तथाप्रकारमल्पकर्माप्रत्यायातादिविशेषणकलापोपेतं पुरुषजातं-पुरुषप्रकारो दीर्पण बहुकालेन पर्यायेण प्रव्रज्यालक्षणेन करणभूतेन सिद्ध्यति- अणिमादियोगेन निष्ठितार्थो वा विशेषतः सिद्धिगमनयोग्यो वा भवति, सकलकर्मनायकमोहनीयघातात्, ततो घातिचतुष्टयघातेन बुद्ध्यते केवलज्ञानभावात् समस्तवस्तूनि, ततो 0 एकमेवात्र व्रतं सर्वैर्जिनवरैर्निर्दिष्टम् / प्राणातिपातविरमणमवशेषाणि तस्य रक्षार्थम् / / 1 / / // 322
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy