________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ / / 321 // णमंतं करेति, जहा सामरुदेवा भगवती, चउत्था अंतकिरिया 4 // सूत्रम् 235 / / चतुर्थमध्ययन चत्तारि अंतकिरिएत्यादि / अस्य चायमभिसम्बन्धः- अनन्तरोद्देशकस्योपान्त्यसूत्रे कर्मणश्चयाधुक्तमिह तु कर्मणस्तत्का चतुःस्थानम्, प्रथमोद्देशकः र्यस्य वा भवस्यान्तक्रियोच्यत इति, अथवा श्रुतं मयाऽऽयुष्मता भगवतैवमाख्यातमित्यभिधाय यत्तदाख्यातं तदभिहितं सूत्रम् 235 तथेदमपरं तेनैवाख्यातं यत्तदुच्यत इत्येवंसम्बन्धस्यास्य व्याख्या- अन्तक्रिया- भवस्यान्तकरणं तत्र यस्य न तथाविधं तपो. अन्तक्रिया चतुष्कम् नापि परीषहादिजनिता तथाविधा वेदना दीर्घेण च प्रव्रज्यापर्यायेण सिद्धिर्भवति तस्यैका 1 यस्य तु तथाविधे तपोवेदने अल्पेनैव च प्रव्रज्यापर्यायेण सिद्धिः स्यात् तस्य द्वितीया 2 यस्य च प्रकृष्टे तपोवेदने दीर्घेण च पर्यायेण सिद्धिस्तस्य तृतीया 3 यस्य पुनरविद्यमानतथाविधतपोवेदनस्य ह्रस्वपर्यायेण सिद्धिस्तस्य चतुर्थीति, अन्तक्रियाया एकस्वरूपत्वेऽपि सामग्रीभेदात् चातुर्विध्यमिति समुदायार्थः, अवयवार्थस्त्वयं- चतस्रोऽन्तक्रियाः प्रज्ञप्ता भगवतेति गम्यते, तत्रे ति सप्तमी निर्धारणे तासु चतसृषु मध्ये इत्यर्थः, खलुक्यालङ्कारे, इयमनन्तरं वक्ष्यमाणत्वेन प्रत्यक्षासन्ना प्रथमा, इतरापेक्षया आद्या अन्तक्रिया, इह कश्चित्पुरुषो देवलोकादौ यात्वा ततोऽल्पैः- स्तोकैः कर्मभिः करणभूतैः प्रत्यायात:- प्रत्यागतो मानुषत्वमिति अल्पकर्मप्रत्यायातो य इति गम्यते अथवा एकत्र जनित्वा ततोऽल्पकर्मा सन् यः प्रत्यायातः स तथा, लघुकर्मतयोत्पन्न इत्यर्थः, चकारो वक्ष्यमाणमहाकापेक्षया समुच्चयार्थः, अपिःसम्भावने, सम्भाव्यतेऽयमपि पक्ष इत्यर्थः, भवति- स्यात्, स इति असौ, णं वाक्यालङ्कारे, मुण्डो भूत्वा द्रव्यतः शिरोलोचेन भावतो रागाद्यपनयनेन अगाराद्- द्रव्यतो गेहाद्भावतः संसाराभिनन्दिदेहिनामावासभूतादविवेकगेहान्निष्क्रम्येति गम्यते अनगारितां- अगारी- गृही असंयतस्तत्प्रतिषेधादनगारीसंयतस्तद्भावस्तत्ता तांसाधुतामित्यर्थः, प्रव्रजितः- प्रगतः प्राप्त इत्यर्थः, अथवा विभक्तिपरिणामादनगारितया-निर्ग्रन्थतया / // 321