SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 323 // सत्रम 205 अन्तक्रिया मुच्यते भवोपग्राहिकर्मभिः, तत: परिनिर्वाति-सकलकर्मकृतविकारव्यतिकरनिराकरणेन शीतीभवतीति, किमुक्तं भवती- चतुर्थमध्ययनं त्याह- सर्वदुःखानामन्तं करोति, शारीरमानसानामित्यर्थः, अतथाविधतपोवेदनो दीर्घेणापि पर्यायेण किं कोऽपि सिद्धः? चतु:स्थानम्, प्रथमोद्देशक: इति शङ्कापनोदार्थमाह- जहा से इत्यादि, यथाऽसौ यः प्रथमजिनप्रथमनन्दनो नन्दनशताग्रजन्मा भरतो राजा चत्वारोऽन्ताःपर्यन्ताः पूर्वदक्षिणपश्चिमसमुद्रहिमवल्लक्षणा यस्याः पृथिव्याः सा चतुरन्ता तस्या अयं स्वामित्वेनेति चातुरन्तः स चासौल चतुष्कम् चक्रवर्ती चेति स तथा, स हि प्राग्भवे लघूकृतका सर्वार्थसिद्धविमानाच्च्युत्वा चक्रवर्तितयोत्पद्य राज्यावस्थ एव केवलमुत्पाद्य कृतपूर्वलक्षप्रव्रज्योऽतथाविधतपोवेदन एव सिद्धिमुपगत इति प्रथमान्तक्रियेति 1, अहावरे ति अथ अनन्तरमपरा पूर्वापेक्षयाऽन्या द्वितीयस्थानेऽभिधानाद् द्वितीया महाकर्मभिः- गुरुकर्मभिर्महाकर्मा सन् प्रत्यायातः प्रत्याजातो वा यःस तथा, तस्स ण मिति, तस्य-महाकर्मप्रत्यायातत्वेन तत्क्षपणाय तथाप्रकारं घोरंतपोभवति, एवं वेदनाऽपि, कर्मोदयसम्पाद्यत्वादुपसर्गादीनामिति, निरुद्धेने ति अल्पेन यथाऽसौ गजसुकुमारो विष्णुलघुभ्राता, स हि भगवतोऽरिष्ठनेमिजिननाथस्यान्तिके प्रव्रज्यांप्रतिपद्य श्मशाने कृतकायोत्सर्गलक्षणमहातपाः शिरोनिहितजाज्वल्यमानाङ्गारजनितात्यन्तवेदनोऽल्पेनैव पर्यायेण सिद्धवानिति, शेषं कण्ठ्यं 2, अहावरे त्यादि कण्ठ्यम्, यथाऽसौ सनत्कुमार इति चतुर्थचक्रवर्ती, स हि महातपा महावेदनश्च सरोगत्वाद् दीर्घतरपर्यायेण सिद्धः, तद्भवे सिद्ध्यभावेन भवान्तरे सेत्स्यमानत्वादिति 3, अहावरे त्यादि कण्ठ्यम्, यथाऽसौ मरुदेवी प्रथमजिनजननी, सा हि स्थावरत्वेऽपि क्षीणप्रायकर्मत्वेनाल्पकर्मा अविद्यमानतपोवेदनाच सिद्धा, गजवरारूढाया है। एवायुःसमाप्तौ सिद्धत्वादिति 4, एतेषां च दृष्टान्तदा न्तिकानामर्थानांन सर्वथा साधर्म्यमन्वेषणीयम्, देशदृष्टान्तत्वादेषाम्, यतो मरुदेव्या मुण्डे भवित्ते त्यादिविशेषणानि कानिचिन्न घटन्ते, अथवा फलतः सर्वसाधर्म्यमपि मुण्डनादिकार्यस्य सिद्धत्वस्य // 323 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy