________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 319 // णपुंसगनिव्वत्तिते, एवं चिणउवचिणबंधउदीरवेद तह णिज्जरा चेव // सूत्रम् 233 // __तिपतेसिता खंधा अणंता पण्णत्ता, एवं जाव तिगुणलुक्खा पोग्गला अणंता पन्नत्ता // सूत्रम् 234 / / तिट्ठाणं समत्तं ततियं अज्झयणं समत्तं // तओ इत्यादि, लोकपुरुषस्य ग्रीवास्थाने भवानि ग्रैवेयकानि तानि च तानि विमानानि च तेषां प्रस्तटा- रचनाविशेषवन्तः समूहाः / इयंच ग्रैवेयकादिविमानवासिता कर्मणः सकाशाद्भवतीति कर्मणस्त्रिस्थानकमाह- जीवाण मित्यादि, सूत्राणि षट्, तत्र त्रिभिः स्थान:- स्त्रीवेदादिभिर्निर्वर्त्तितान्-अर्जितान् पुद्गलान् पापकर्मतया अशुभकर्मत्वेनोत्तरोत्तराशुभाध्यवसायतश्चितवन्तः- आसंकलनत एवमुपचितवन्तः- परिपोषणत एव बद्धवन्तो-निर्मापणत उदीरितवन्तोऽध्यवसायवशेनानुदीर्णोदयप्रवेशनतो वेदितवन्तोऽनुभवनतो निर्जरितवन्तः प्रदेशपरिशाटनतः, सङ्गहणीगाथार्द्धमत्र- एवं चिणउवचिणबंधउदीरवेय तह निज्जरा चेव त्ति एव मिति यथैकं कालत्रयाभिलापेनोक्तं तथा सर्वाण्यपीति / कर्म च पुद्गलात्मकमिति पुगलस्कन्धान् प्रति त्रिस्थानकमाह- तिपएसिए त्यादि, स्पष्टमिति, सर्वसूत्रेषु व्याख्यातशेषं कण्ठ्यमिति // त्रिस्थानकस्य चतुर्थोद्देशकः समाप्तः। तत्समाप्तौ च श्रीमदभयदेवसूरिविरचितस्थानाङ्गविवरणे तृतीयं त्रिस्थानकाख्यमध्ययनं समाप्तमिति / समाप्त तृतीयमध्ययनम् // ॥श्रीमदभयदेवसूरिवरविहितविवरणयुतं श्रीस्थानाङ्गाख्ये तृतीया) त्रिस्थानाख्यं तृतीयमध्ययनं समाप्तमिति / / तृतीयमध्ययनं त्रिस्थानम्, चतुर्थोद्देशकः सूत्रम् 232-234 ग्रैवेयकप्रस्तटाः, स्त्यादिचितादिपुद्रला:, त्रिप्रदेशिकाद्यास्त्रिगुण कक्षान्ता: पुद्गलाः // 319 //