________________ श्रीस्थानाई श्रीअभय० वृत्तियुतम् भाग-१ // 309 // स्वधीतम्, ताजगाद सुधर्मस्वामीकरणमनन्तरमुक्तम्, धार्मिकमेवमितरे, नवरमधार्मिकोऽसंयतस्तृतीयो देशसंयतः, अथवा धर्मे भवं धर्मो वा प्रयोजनमस्येति धार्मिकम् , वि-तृतीयमध्ययनं पर्यस्तमितरद्, एवं तृतीयमपीति / धार्मिककरणमनन्तरमुक्तम्, तच्च धर्म एवेति तद्भेदानाह-तिविहे इत्यादि स्पष्टम्, केवलं त्रिस्थानम्, चतुर्थोद्देशकः भगवता महावीरेणेत्येवं जगाद सुधर्मस्वामी जम्बूस्वामिनंप्रतीति, सुष्ठ-कालविनयाद्याराधनेनाधीतं-गुरुसकाशात् सूत्रतः सूत्रम् पठितं स्वधीतम्, तथा सुष्ठु- विधिना तत एव व्याख्यानेनार्थतः श्रुत्वा ध्यातं- अनुप्रेक्षितम्, श्रुतमिति गम्यं सुध्यातम्, 218-220 व्यावृत्यध्युअनुप्रेक्षणाऽभावे तत्त्वानवगमेनाध्ययनश्रवणयोः प्रायोऽकृतार्थत्वादिति, अनेन भेदद्वयेन श्रुतधर्म उक्तस्तथा सुष्ठ- इहलोका पपत्तिपर्याप्तिद्याशंसारहितत्वेन तपस्थितं- तपस्यानुष्ठानं, सुतपस्यितमिति चचारित्रधर्म उक्त इति, त्रयाणामप्येषामुत्तरोत्तरतोऽविनाभावं त्रैविध्यम् लोक-वेददर्शयति- जया इत्यादिव्यक्तम्, परं निर्दोषाध्ययनं विना श्रुतार्थाप्रतीते:सुध्यातं न भवति तदभावे ज्ञानविकलतया सुतपस्थित समयानामन्तन भवतीति भावः, यदेतत्-स्वधीतादित्रयं भगवता वर्द्धमानस्वामिना धर्मः प्रज्ञप्तः सेत्तिस स्वाख्यातः-सुष्ठुक्तः सम्यग्ज्ञानक्रियारूपत्वात्, तयोश्चैकान्तिकात्यन्तिकसुखावन्ध्योपायत्वेन निरुपचरितधर्मत्वात्, सुगतिधारणाद्धि धर्म इति, उक्तंच 8 जिनकेवल्य हतां त्रैविध्यम् नाणं पयासयं सोहओ तवो संजमो य गुत्तिकरो। तिण्हपि समाओगे मोक्खो जिणसासणे भणिओ॥१॥ (आव०नि० 103) इति, णमिति वाक्यालङ्कारे। सुतपस्थितमिति चारित्रमुक्तम्, तच्च प्राणातिपातादिविनिवृत्तिस्वरूपमिति तस्या भेदानाह तिविधा वावत्ती पं० तं०- जाणू अजाणू वितिगिच्छा, एवमज्झोववज्जणा परियावज्जणा॥ सूत्रम् 218 // तिविधे अंते पं० तं०- लोगते वेयंते समयंते॥सूत्रम् 219 // // 309 // ततो जिणा पं० तं०- ओहिणाणजिणे मणपज्जवणाणजिणे केवलणाणजिणे 1, ततो केवली पं० तं०- ओहिनाणकेवली 0 ज्ञानं प्रकाशकं शोधकं तपः संयमस्तु गुप्तिकरः / त्रयाणामपि समायोगो मोक्षो जिनशासने भणितः॥१॥ स्त्रिधा,