________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 308 // तृतीयमध्ययन त्रिस्थानम्, चतुर्थोद्देशकः सूत्रम् 215-217 गौरवाणि धार्मिकादिकरणानि स्वाध्याय अतियानं- नगरप्रवेशस्तत्र ऋद्धिः- तोरणहट्टशोभाजनसम्मादिलक्षणा निर्याणं- नगरान्निर्गमस्तत्र ऋद्धिः- हस्तिकल्पनसामन्तपरिवारादिका बलं-चतुरङ्गंवाहनानि-वेगसरादीनि कोशो-भाण्डागारं कोष्ठा-धान्यभाजनानि तेषामगारं-गेहं कोष्ठागारं धान्यगृहमित्यर्थस्तेषांतान्येव वा ऋद्धिर्यासातथा 4 / सचित्तादिका पूर्ववभावनीयेति 5 / ज्ञानर्द्धिर्विशिष्टश्रुतसम्पद्, दर्शनर्द्धि:- प्रवचने निःशङ्कितादित्वं प्रवचनप्रभावकशास्त्रसम्पद्वा चारित्रर्द्धिनिरतिचारता ६।सचित्ता शिष्यादिका अचित्ता वस्त्रादिका मिश्रा तथैवेति 7 / इह च विकुर्वणादिक्रद्धयोऽन्येषामपि भवन्ति, केवलं देवादीनां विशेषवत्यस्ता इति तेषामेवोक्ता इति / ऋद्धिसद्भावेच गौरवं भवतीति तद्भेदानाह ततो गारवा पं० त० इडीगारवे रसगारवेसातागारवे॥सूत्रम् 215 // तिविधे करणे पं० तं०-धम्मिते करणे अधम्मिए करणे धम्मिताधम्मिए करणे॥सूत्रम् 216 // तिविहे भगवता धम्मे पं० तं०- सुअधिज्झिते सुज्झातिते सुतवस्सिते, जया सुअधिज्झितं भवति तदा सुज्झातियं भवति जया सुज्झातियं भवति तदासुतवस्सियं भवति, सेसुअधिज्झितेसुज्झातितेसुतवस्सितेसुतक्खातेणंभगवता धम्मे पण्णत्ते॥सूत्रम् 217 // तओ गारवे त्यादि व्यक्तम्, परंगुरोर्भावः कर्म वेति गौरवम्, तच्च द्वेधा- द्रव्यतो वज्रादेर्भावतोऽभिमानलोभलक्षणाशुभभाववत आत्मनस्तत्र भावगौरवं त्रिधा, तत्र ऋद्ध्या- नरेन्द्रादिपूजालक्षणया आचार्यत्वादिलक्षणया वा अभिमानादिद्वारेण गौरवमृद्धिगौरवम्, ऋद्धिप्राप्त्यभिमानाप्राप्तप्रार्थनाद्वारेणात्मनोऽशुभभावो भावगौरवमित्यर्थ, एवमन्यत्रापि, नवरं रसोरसनेन्द्रियार्थो मधुरादिः सातं-सुखमिति, अथवा ऋद्ध्यादिषु गौरवमादर इति ।अनन्तरंचारित्रर्द्धिरुक्ता, चारित्रंच करणमिति तद्भेदानाह-तिविहे इत्यादि, कृतिः करणमनुष्ठानम्, तच्च धार्मिकादिस्वामिभेदेन त्रिविधम्, तत्र धार्मिकस्य-संयतस्येदं ध्यानतपोधर्माः 8 // 308 //