________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 307 // विमानर्द्धिः, भवति च द्वात्रिंशल्लक्षादिकं सौधर्मादिषु विमानबाहुल्यम्, यथोक्तं- बत्तीस अट्ठवीसा बारस अट्ठ चउरो सय तृतीयमध्ययनं सहस्सा। आरेण बंभलोगा विमाणसंखा भवे एसा॥१॥ पंचास चत्त छच्चेव सहस्सा लंतसुक्कसहसारे। सयचउरो आणयपाणएसु त्रिस्थानम्, चतुर्थोद्देशकः तिन्नारणच्चुयए // 2 // एक्कारसुत्तर हेट्ठिमेसु सत्तुत्तरं च मज्झिमए / सयमेगं उवरिमए पंचेव अणुत्तरविमाणा॥३॥ (बृहत्सं० 117-19) सूत्रम् 214 इति, उपलक्षणं चैतद्भवननगराणामिति, वैक्रियकरणलक्षणा ऋद्धिक्रियर्द्धिः, वैक्रियशरीरैर्हि जम्बूद्वीपद्वयमसङ्ख्यातान् देव-राज गणिवा द्वीपसमुद्रान् पूरयन्तीति, उक्तं च भगवत्यां-चमरे णं भंते! के महिड्डिए जाव केवतियं च णं पभू विउवित्तए?, गोयमा! चमरे णं नामद्धय:२१ जाव पभू णं केवलकप्पं जम्बुद्दीवं दीवं बहूहिं असुरकुमारेहिं देवेहि य देवीहि य आइन्नं जाव करेत्तए, अदुत्तरं च णं गोयमा! पभू चमरे / जाव तिरियमसंखेजे दीवसमुद्दे बहूहिं असुरकुमारेहिं आइन्ने जाव करित्तए, एस णं गोयमा! चमरस्स 3 अयमेयारूवे विसयमेत्ते बुइए, नो चेव णं संपत्तीए विउव्विंसु 3, एवं सक्केऽवि दो केवलकप्पे जम्बुद्दीवे जाव आइन्ने करेज्ज (भगवती ३/१/३,१५)त्ति, परिचारणाकामासेवा तदृद्धिः, अन्यान् देवानन्यसत्का देवीः स्वकीया देवीरभियुज्यात्मानं च विकृत्य परिचारयतीत्येवमुक्तलक्षणेति 2 / सचित्ता- स्वशरीराग्रमहिष्यादिसचेतनवस्तुसम्पद् अचेतना- वस्त्राभरणादिविषया मिश्रा- अलङ्कतदेव्यादिरूपा 3 // 0 द्वात्रिंशदष्टाविंशतिदशाष्ट च चत्वारि शतसहस्राणि / आराद्ब्रह्मलोकाद् विमानसंख्यैषा भवेत्॥१॥ पञ्चाशचत्वारिंशत् षट् सहस्राणि लान्तकशुक्रसहस्रारेषु चत्वारि शतान्यानतप्राणतयोस्त्रीण्यारणाच्युतयोः॥ 2 // अधस्तने एकादशाधिकं मध्यमे सप्तोत्तरं शतमुपरितने एकं शतमनुत्तरविमानानि पञ्चैव // 3 // 0 चमरो भदन्त! कीदृशो महर्द्धिको यावत्कियद्विकुर्वयितुं प्रभुः? गौतम! चमरो यावत्समर्थः केवलकल्पं जम्बूद्वीपं द्वीपं बहुभिरसुरकुमारनिकायैर्देवैर्देवीभिश्च आकीर्णं यावत् कर्तुम्, अथ च गौतम ! प्रभुश्चमरो यावत्तिर्यगसंख्येयद्वीपसमुद्रान् बहुभिरसुरकुमारनिकायैराकीर्णान् यावत्कर्तुम्, एष गौतम! चमरस्य एतादृशस्वरूपः विषयमात्र उक्तः। 8न चैव संपत्त्या व्यकार्षीद् विकरोति विकरिष्यति। एवं शक्रोऽपि द्वौ केवलकल्पौ जम्बूद्वीपौ आकीर्णी यावत्कुर्यात्।।