SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वत्तियुतम् भाग-१ // 8 // पूर्कोरिदमवतरति, उत्कीर्तनञ्च एकस्थानं द्विस्थानं त्रिस्थानमित्यादि, गणनं तु परिसङ्ख्यानं- एकं द्वे त्रीणि इत्यादि, साच प्रथममध्ययनगणनानुपूर्वी त्रिप्रकारा- पूर्वानुपूर्वी पश्चानुपूर्व्यनानुपूर्वी चेति, पूर्वानुपूर्येदं प्रथमं सद्व्याख्यायते पश्चानुपूर्व्या दशममनानुपूर्व्या मेकस्थानम्, फलादित्वनियतमिति, तथा नाम दशधा- एकादि दशान्तम्, तत्र षड्नाम्न्यस्यावतारः, तत्रापि क्षायोपशमिके भावे, क्षायोपशमिक-द्वारनिरूपण पूर्वकमनुयोगभावरूपत्वात् सकलश्रुतस्येति, उक्तञ्च-छव्विहनामे भावे खओवसमिए सुयं समोयरति / जंसुयणाणावरणक्खओवसमजं तयं सव्वं प्रवृत्ति:फलम्, ॥१॥(विशेषाव० 945) ति / तथा प्रमाणं द्रव्यादिभेदाच्चतुर्विधम्, तत्र क्षायोपशमिकभावरूपत्वादस्य भावप्रमाणे अवतारो, मङ्गलम्, समुदायार्थे, यत आह-दव्वादि चउन्भेयं पमीयते जेण तं पमाणंति। इणमज्झयणं भावोत्ति भावमाणे समोयरति॥१॥ (विशेषाव० ९४६)त्ति, स्थाननिक्षेपाः भावप्रमाणंच गुणनयसङ्ख्याभेदतस्त्रिधा, तत्रास्य गुणप्रमाणसङ्ख्याप्रमाणयोरेवावतारः, नयप्रमाणे तु नसम्प्रति, यदाह-१५, | अङ्गनिक्षेपा मूढनइयं सुयं कालियं तु न नया समोयरंति इहं। अपुहत्ते समोयारो नत्थि पुहत्ते समोयारो॥१॥(आव०नि०७६२, विशेषाव० 2279) / प्रभेदा त्ति, गुणप्रमाणं तु द्विधा- जीवगुणप्रमाणमजीवगुणप्रमाणं च, तत्र अस्य जीवोपयोगरूपत्वाज्जीवगुणप्रमाणेऽवतारः, निक्षेपाऽनुगमतस्मिन्नपिज्ञानदर्शनचारित्रभेदतस्त्र्यात्मके अस्य ज्ञानरूपतया ज्ञानप्रमाणे, तत्रापि प्रत्यक्षानुमानोपमानागमात्मके प्रकृताध्ययनस्याप्तोपदेशरूपत्वादागमप्रमाणे, तत्रापि लौकिकलोकोत्तरभेदे परमगुरुप्रणीतत्वेन लोकोत्तरे सूत्रार्थोभयात्मनि तथा चाह- जीवाणण्णत्तणओ जीवगुणे बोहभावओणाणे। लोगुत्तरसुत्तत्थोभयागमे तस्स भावाओ॥१॥(विशेषाव०९४७) तत्राप्यात्मा Oभावस्वरूप० (मु०)। 0 षड्धिनाम्नि भावे क्षायोपशमिके श्रुतं समवतरति / यत् श्रुतज्ञानावरणक्षयोपशमजं तकत् सर्वम् // 1 // 0 द्रव्यादि चतुर्भेदं प्रमीयते येन तत्प्रमाणमिति। इदमध्ययनं भाव इति भावमाने समवतरति // 1 // 0 मूढनयिकं श्रुतं कालिकं तु न नयाः समवतरन्तीह / अपृथक्त्वे समवतारो नास्ति पृथक्त्वे समवतारः॥ 1 // 9 अपुहुत्ते...पुहुत्ते (मु०)। 0 जीवानन्यत्वात् जीवगुणे बोधभावात् ज्ञाने। लोकोत्तरसूत्रार्थोभयागमे तस्य भावात्॥१॥ उपक्रम नया:,प्रस्तुते समवतार: निक्षेपाः // 8 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy