________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 294 // तृतीयमध्ययनं त्रिस्थानम्, चतुर्थोद्देशकः सूत्रम् 203 अवाचनीयवाचनीयदुस्संज्ञाप्यसुसंज्ञाप्याः लोभदोसेणं / चरणट्ठिओ तवस्सी लोवेइ तमेव उचरित्तं ॥१॥(निशीथभा० 3745) इति, इह त्रयोऽप्रव्राज्या उक्तास्त्रिस्थानकानुरोधाद्, अन्यथा अन्येऽपि ते सन्ति, यदाह-बाले वुढे नपुंसे य, जड्डे कीवे य वाहिए। तेणे रायावगारी य, उम्मत्ते य अदंसणे॥१॥ दासे दुढे (य) मूढे (य), अणत्ते जुंगिए इय। ओबद्धए य भयए, सेहनिप्फेडिया इय ॥२॥गुम्विणी बालवच्छा य, पव्वावेउं न कप्पइ (निशीथभा० ३५०६-८)त्ति, अदंसणो-अन्धः अणत्तो-ऋणपीडितः जुंगिओ-जात्यङ्गहीनः ओबद्धओ-विद्यादायकादिप्रतिजागरकः सेहणिप्फेडिआ- अपहृत इति, एव मित्यादि, यथैते प्रव्राजयितुं न कल्पन्ते एवमेत एव कथञ्चिच्छलितेन प्रवाजिता अपि सन्तोमुण्डयितुं शिरोलोचेनन कल्पन्ते, उक्तंच- पव्वाविओ सियत्ति, (यः स्यादित्यर्थः) मुंडावेउंअणायरणजोगो। अहवा मुंडाविन्ते दोसा अणिवारिया पुरिमा // 1 // (तुलना बृहत्क० 5190) इति, एवं शिक्षयितुं- प्रत्युपेक्षणादिसामाचारी ग्राहयितुम्, तथा उपस्थापयितुं-महाव्रतेषुव्यवस्थापयितुम्, तथा सम्भोक्तुं- उपध्यादिना, एवमनाभोगात् संभुक्ताश्च संवासयितुंआत्मसमीपे आसयितुं न कल्पन्त इति प्रक्रम इति / कथञ्चित् संवासिता अपि वाचनाया अयोग्या:- न वाचनीया इति, तानाह ततो अवायणिज्जा पं० त०- अविणीए विगतीपडिबद्धे अविओसितपाहुडे, तओकप्पंति वातित्तते, तं०- विणीए अविगतीपडिबद्धे विउसियपाहुडे। तओ दुसन्नप्या पं० तं०-दुढे मूढे वुग्गाहिते, तओ सुसन्नप्पा पं० तं०- अदुढे अमूढे अवुग्गाहिते॥सूत्रम् 203 // लोभदोषेण ।चरणस्थितस्तपस्वी लोपयति तदेव चारित्रम्॥ 1 // 0 बालो वृद्धो नपुंसको जडः क्लीबश्व व्याधितः। स्तेनो राजापकारी च उन्मत्तश्चादर्शनः॥१॥ दासो दुष्टश्च मूढश्व ऋणातॊ जुङ्गित इति अवबद्धको भृतकः शिष्यनिष्फेटिकेति // 2 // गर्भिणी बालवत्सा च प्रव्राजयितुं न कल्पते // 0 स्यात्प्रवाजितो मुण्डयितुमनाचरणयोग्योऽथवा मुण्डिते पौरस्त्या दोषा अनिवारिताः॥ 1 // // 294 //