________________ श्रीस्थाना श्रीअभय० वृत्तियुतम् भाग-१ / / 293 // तृतीयमध्ययनं त्रिस्थानम्, चतुर्थोद्देशकः सूत्रम् 202 ६प्रव्राजनादिष्वकल्प्याः (पण्डकवातिकक्लीबस्वरूपम्) इत्यर्थः, अथवा हत्थालंबं दलमाणे त्ति पाठस्तत्र हस्तालम्बइव हस्तालम्बस्तं हस्तालम्बंददद्, अशिवपुररोधादौ तत्प्रशमनार्थमभिचारकमन्त्रविद्यादि प्रयुञ्जान इत्यर्थः३॥पूर्वोक्तप्रायश्चित्तं प्रव्राजनादियुक्तस्य भवति, तानि चायोग्यनिरासेन योग्यानां विधेयानीति तदयोग्यान्निरूपयन् सूत्रषट्कमाह ततो णो कप्पंति पव्वावेत्तए, तं०- पंडए वातिते कीवे 1, एवं मुंडावित्तए 2, सिक्खावित्तए 3, उवट्ठावित्तए 4, संभुंजित्तते 5, संवासित्तते ६,॥सूत्रम् 202 // तओ इत्यादि कण्ठ्यम्, किन्तु पण्डकं नपुंसकम्, तच्च लक्षणादिना विज्ञाय परिहर्त्तव्यम्, लक्षणानि चास्य-महिलासहावो सरवन्नभेओ, मेंढे महंतं मउई य वाया। ससद्दगं मुत्तमफेणगं च, एयाणि छप्पंडगलक्खणाणि॥१॥(बृहत्क० भा०५१४४)त्ति, तथा वातोऽस्यास्तीति वातिको, यदा स्वनिमित्ततोऽन्यथा वा मेहनं कषायितं भवति तदा न शक्नोति यो वेदं धारयितुं यावन्न प्रतिसेवा कृता स वातिक इति, अयं च निरुद्धवेदो नपुंसकतया परिणमति, क्वचित्तु वाहिय त्ति पाठः, तत्र व्याधितो रोगीत्यर्थः, तथा क्लीब-असमर्थः,सच चतुर्द्धा-दृष्टिक्लीबशब्दक्लीबादिग्धक्लीबनिमन्त्रणक्लीबभेदात्, तत्र यस्यानुरागतो विवस्त्राद्यवस्थं विपक्षं पश्यतो मेहनंगलतिस दृष्टिक्लीबः, यस्य तु सुरतादिशब्दं शृण्वतःस द्वितीयो, यस्तु विपक्षणावगूढो निमन्त्रितोवा व्रतंरक्षितुंन शक्नोति स आदिग्धक्लीबो निमन्त्रितक्लीबश्चेति, चतुर्विधोऽप्ययं निरोधे नपुंसकतया परिणमतीति, वातिकक्लीबयोस्तु परिज्ञानंतयोस्तन्मित्रादीनांवा कथनादेरिति, विस्तरश्चात्र कल्पादवसेयः, एते चोत्कटवेदतया व्रतपालनासहिष्णव इति न कल्पन्ते प्रव्राजयितुम्, प्रव्राजकस्याप्याज्ञाभङ्गेन दोषप्रसङ्गादिति, उक्तंच- जिणवयणे पडिकुटुं जो पव्वावेइ Oमहिलास्वभावः स्वरवर्णभेदो मेहनं महन्मृद्वी च वाणी। सशब्दकं मूत्रमफेनं च एतानि षट् पण्डकलक्षणानि। (c) जिनवचने प्रतिकुष्टं यः प्रव्राजयति - // 293 //