SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 285 // 25-26, पञ्चव० 763-762, पिण्डनि० 520) इह च सोलस उग्गमदोसा गिहियाओ समुट्ठिए वियाणाहि। उप्पायणाय दोसा साहूओ समुट्ठिए जाण॥३॥(पिण्डनि०५२०) एषणादोषास्तूभयसमुत्था इति, एवमुद्गमादिभिर्दोषैरविद्यमानतया या विशुद्धिःपिण्डचरणादीनां निर्दोषता सा उद्गमादिविशुद्धिरुद्रमादीनां वा विशुद्धिर्या सा तथेति, इदमेवातिदिशन्नाह-एवं विसोही। ज्ञानस्य- श्रुतस्याराधना- कालाध्ययनादिष्वष्टस्वाचारेषु प्रवृत्त्या निरतिचारपरिपालना ज्ञानाराधना, एवं दर्शनस्य निःशङ्कितादिषु, चारित्रस्य समितिगुप्तिषु, सा चोत्कृष्टादिभेदा भावभेदात् कालभेदावति, ज्ञानादिप्रतिपतनलक्षणः सङ्क्लिश्यमानपरिणामनिबन्धनो ज्ञानादिसङ्क्लेशो, ज्ञानादिशुद्धिलक्षणो विशुद्धयमानपरिणामहेतुकस्तदसङ्क्लेशः। एव मिति, ज्ञानादिविषया एवातिक्रमादयश्चत्वारः, तत्राधाकर्माश्रित्य चतुर्णामपि निदर्शनं- आहाकम्मामंतण पडिसुणमाणे अइक्कमो होइ 1 / पयभेदादि वइक्कम 2 गहिए तइ 3 एयरो गिलिए ४॥१॥(व्यव० पीठिका० 43) इति, इत्थमेवोत्तरगुणरूपचारित्रस्य चत्वारोऽपि, एतदुद्देशेन ज्ञानदर्शनयोस्तदुपग्रहकारिद्रव्याणां च पुस्तकचैत्यादीनामुपघाताय मिथ्यादृशामुपबृंहणार्थं वा निमन्त्रणप्रतिश्रवणादिभिर्ज्ञानदर्शनातिक्रमादयोऽप्यायोज्या इति / तिण्हं अइक्कमाणं तिषष्ठ्या द्वितीयार्थत्वात् त्रीनतिक्रमानालोचयेद्-गुरवे निवेदयेदित्यादि प्राग्वद्, नवरं यावत्करणाद् विसोहेजा विउठूजा अकरणयाए अब्भुटेज्जा अहारिहंतवोकम्म पायच्छित्त'मित्यध्येतव्यमिति, पापच्छेदकत्वात् प्रायश्चित्तविशोधकत्वाद्वा प्राकृते पायच्छित्तमिति शुद्धिरुच्यते तद्विषयः शोधनीयातिचारोऽपि प्रायश्चित्तमिति, तच्च त्रिधा, दशविधत्वेऽपि तस्य त्रिस्थानकानुरोधादिति, तत्रालोचनमालोचना O षोडशोद्गमदोषान् गृहिणः समुत्थितान् विजानीहि / उत्पादनाया दोषान् साधोः समुत्थितान् जानीहि // 3 // आधाकर्मामन्त्रणप्रतिश्रवणे अतिक्रमो भवति। पदभेदादौ व्यतिक्रमो गृहीते तृतीय इतरो गिलिते॥१॥ तृतीयमध्ययनं त्रिस्थानम्, चतुर्थोद्देशकः सूत्रम् 194-196 ज्ञानादिप्रज्ञापनासम्यक्त्वे उपघातविशुद्धीच, आराधनासंक्लेशाऽसंक्लेशातिक्रमव्यतिक्रमाऽतीचाराऽनाचाराः, अतिक्रमादिप्रतिक्रमणंच, प्रायश्चित्तत्रैविध्यम् (आधाकर्मादिस्वरूपम्) // 285 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy