SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ | श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 282 // तृतीयमध्ययन त्रिस्थानम्, चतुर्थोद्देशकः सूत्रम् 192-193 कालसमयादि त्रैविध्यं, वचन त्रैविध्यम् कालेन भवति स कालोऽपि पुद्गलपरिवर्तः, स चानन्तोत्सर्पिण्यवसर्पिणीरूप इति, स चेत्थं भगवत्यामुक्तः- कतिविहे णं भंते! पोग्गलपरियट्टे पन्नत्ते?, गोयमा! सत्तविहे पन्नत्ते, तंजहा- ओरालियपोग्गलपरियट्टे वेउवियपोग्गलपरियट्टे एवं तेयाकम्मामणवइआणापाणूपोग्गलपरियट्टे (भगवती १२/४/१५)तथा से केण?णं भंते! एवं वुच्चइ- ओरालियपोग्गलपरियट्टे 2? गोयमा! जेणं जीवेणं ओरालियसरीरे वट्टमाणेणं ओरालियसरीरपाउग्गाई दव्वाइं ओरालियसरीरत्ताए गहियाइं जाव णिसट्ठाई भवंति, से तेणऽढेणं गोयमा! एवं वुच्चइ- ओरालियपोग्गलपरियट्टे ओ०२ (भगवती 12/4/47) एवं शेषा अपि वाच्याः , तथा ओरालियपोग्गलपरियट्टे णं भंते! केवइकालस्स णिव्वट्टिजइ?, गोयमा! अणंताहिं उस्सप्पिणीओसप्पिणीहिं (भगवती १२/४/५०)ति, एवं शेषा अपीति, अन्यत्र त्वेवमुच्यते- ओराल 1 विउव्वा 2 तेय 3 कम्म 4 भासा 5 ऽऽणुपाणु 6 मणगेहिं 7 / फासेवि सव्वपोग्गल मुक्का अह बायरपरट्टो // 1 // दव्वे सुहमपरट्टो जाहे एगेण अह सरीरेणं / लोगंमि सव्वपोग्गल परिणामेऊण तो मुक्का // 1 // इति, द्रव्यपुद्गलपरिवर्तसदृशा येऽन्ये क्षेत्रकालभावपरिवर्तास्तेऽन्यतोऽवसेया इति॥ एते च समयादयः पुद्गलपरिवर्तान्ताः स्वरूपेण बहवोऽपि तत्सामान्यलक्षणमेकमर्थमाश्रित्यैकवचनान्ततयोक्ता, भवन्ति चैकादिष्वर्थेष्वेकवचनादीनीत्येकवचनादिप्ररूपणायाह-तिविहे इत्यादि, एकोऽर्थ उच्यतेऽनेनोक्तिर्वेति वचनमेकस्यार्थस्य वचनमेकवचनमेवमितरे अपि, अत्र क्रमेणोदाहरणानि- देवो देवौ देवाः ।वचनाधिकारे 0 कतिविधो भदन्त! पुद्गलपरावतः प्रज्ञप्त:?, गौतम! सप्तविधः प्रज्ञप्तः, तद्यथा-औदारिकपुद्गलपरिवर्तः वैक्रियपुद्गलपरिवर्त्त एवं तेजःकर्ममनोवागानप्राणपुद्गलपरावर्तः। 0 अथ केनार्थेन भदन्त! एवमुच्यते औदारिकपुद्गलपरावतः 21, गौतम! येन जीवेन औदारिकशरीरे वर्तमानेनौदारिकप्रायोग्याणि द्रव्याणि औदारिकशरीरतया गृहीतानि यावन्निसृष्टानि भवन्ति, अथ तेनार्थेन गौतमैवमुच्यते औदारिकपुद्गलपरावतः 210 औदारिकपुद्गलपरावतः भदन्त! कियता कालेन निर्वय॑ते?, गौतमानन्ताभिरुत्सर्पिण्यवसर्पिणीभिः10 औदारिकवैक्रियतेजःकर्मभाषानप्राणमनोभिः सर्वे पुद्गलाः संस्पृश्य मुक्ता अथासौ बादरपरिवर्तः / / द्रव्ये सूक्ष्मपरावर्तो यदैकेन शरीरेणाथ लोके सर्वे पुद्गलाः परिणमय्य मुक्ताः स्युस्तदा // 1 // | (पुद्गलपरावर्तस्वरूपम्) // 282 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy