SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ श्रीअभय० वृत्तियुतम् भाग-१ // 280 // तृतीयमध्ययन त्रिस्थानम्, चतुर्थोद्देशकः सूत्रम् 191 प्रतिमाप्रतिपन्नस्योपाश्रयसंस्तारकाः पूर्वसूत्रे श्रमणमाहनस्य पर्युपासनायाः फलपरम्परोक्ता इह तु तद्विशेषस्य कल्पविधिरुच्यत इत्येवंसम्बन्धितस्यास्य व्याख्या__ पडिमापडिवन्नस्स अणगारस्स कप्पंति तओ उवस्सया पडिलेहित्तए, तं०- अहे आगमणगिहंसि वा अहे वियडगिहंसि वा अहे रुक्खमूलगिहंसि वा, एवमणुन्नवित्तते, उवातिणित्तते, पडिमापडिवनस्स अणगारस्स कप्पंति तओ संथारगा पडिलेहित्तते, तं०पुढविसिला कट्ठसिला अहासंथडमेव, एवं अणुण्णवित्तए उवाइणित्तए / / सूत्रम् 191 // / प्रतिमा मासिक्यादिकां भिक्षुप्रतिज्ञाविशेषलक्षणां प्रतिपन्न:- अभ्युपगतवान् यः स तथा तस्यानगारस्य कल्पन्ते युज्यन्ते त्रय उपाश्रीयन्ते- भज्यन्ते शीतादित्राणार्थं ये ते उपाश्रया- वसतयः प्रत्युपेक्षितुं- अवस्थानार्थं निरीक्षितुमिति, अहे त्ति अथार्थः, अथशब्दश्वेह पदत्रयेऽपि त्रयाणामप्याश्रयाणां प्रतिमाप्रतिपन्नस्य साधोः कल्पनीयतया तुल्यताप्रतिपादनार्थो, वा विकल्पार्थः, पथिकादीनामागमनेनोपेतं तदर्थं वा गृहमागमनगृहं-सभाप्रपादि, यदाह-आगन्तु गारत्थजणो जहिं तु, संठाइ जं वाऽऽगमणमि तेसिं / तं आगमो किंतु विदू वयंति, सभापवादेउलमाइयं च॥१॥ (बृहत्क० भा० 3486) इति, तस्मिन् उपाश्रयःतदेकदेशभूतः प्रत्युपेक्षितुं कल्पत इति प्रक्रम इति, तथा वियडं ति विवृत्- अनावृतम्, तच्च द्वेधा- अध ऊर्दू च, तत्र पार्श्वत एकादिदिक्षु अनावृतमधोविवृतं अनाच्छादितममालगृहं चोर्द्धविवृतं तदेव गृह विवृतगृहम्, उक्तं च-अवाउडं जंतु चउद्दिसिंपि दिसामहो तिन्नि दुवे य एक्का। अहे भवे तं वियडं गिहंतु, उड्ड अमालंच अतिच्छदं च // 1 // (बृहत्क० भा० ३५००)त्ति, तस्मिन् वा, तथा वृक्षस्य- करीरादेर्निर्गलस्य मूलं- अधोभागस्तदेव गृहं वृक्षमूलगृहं तस्मिन् वेति। प्रत्युपेक्षया चोपाश्रये शुद्धे गृहस्थं 0 गृहस्थजन आगत्य यत्र तु संतिष्ठते यद्वागमने तेषां तदागन्तुकागारं विद्वांसो वदन्ति सभाप्रपादेवकुलादिकम् // 1 // 0 अप्रावृतं यत्तु चतसृषु दिक्षु अथवा तिसृषु दिक्षु द्वयोः पार्श्वयोरधश्च तदधोविवृतं अच्छादितममालं चोर्द्धविवृतम् // 1 // // 280 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy