SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ श्रीस्थाना श्रीअभय० वृत्तियुतम् भाग-१ // 279 // सेणंभंते! निव्वाणे किंफले?, सिद्धिगइगमणपज्जवसाणफले पन्नत्ते, समणाउसो! ॥सूत्रम् 190 // तिठाणस्स तइओ उद्देसोसमत्तो॥ तहारूवे त्यादि पाठसिद्धम्, केवलं पर्युपासना-सेवा, श्रवणं फलं यस्याः सा तथा, साधवो हि धर्मकथादिकं स्वाध्यायं कुर्वन्तीति श्रवणं तत्सेवायां भवतीति, ज्ञानं-श्रुतज्ञानम्, विज्ञानं- अर्थादीनां हेयोपादेयत्वविनिश्चयः, एव मिति पूर्वोक्तेनाभिलापेन से णं भंते! विन्नाणे किंफले?, पच्चक्खाणफले इत्यादिना, इयं गाथा अनुगन्तव्या- अनुसरणीया, एतद्गाथोक्तानि उक्तानुक्तानि पदान्यध्येतव्यानीत्यर्थः, सवणे इत्यादि, भावितार्था, नवरं प्रत्याख्यानं-निवृत्तिद्वारेण प्रतिज्ञाकरणं संयम:प्राणातिपाताद्यकरणम्, उक्तंच-पञ्चाश्रवाद्विरमणं पञ्चेन्द्रियनिग्रहः कषायजयः / दण्डवयविरतिश्चेति संयमः सप्तदशभेदः॥१॥(प्रशम० 172) इति, अनाश्रवो- नवकर्मानुपादानम्, अनाश्रवणाल्लघुकर्मत्वेन तपोऽनशनादिभेदं भवति, व्यवदानं- पूर्वकृतकर्मवनलवनं 'दाप्लवने' इति वचनात् कर्मकचवरशोधनं वा 'दैप्शोधन' इति वचनादिति, अक्रिया-योगनिरोधो, निर्वाणंकर्मकृतविकाररहितत्वं सिद्ध्यन्ति कृतार्था भवन्ति यस्यां सा सिद्धिर्लोकाग्रं सैव गम्यमानत्वाद् गतिस्तस्यां गमनं तदेव पर्यवसानफलं-सर्वान्तिमप्रयोजनं यस्य निर्वाणस्य तत्सिद्धिगतिगमनपर्यवसानफलं प्रज्ञप्तं मया अन्यैश्च केवलिभिः, हे श्रमणायुष्मन्निति गौतमादिकं शिष्यं भगवानामन्त्रयन्निदमुवाचेति / त्रिस्थानकस्य तृतीयोद्देशको विवरणतः समाप्तः॥ तृतीयमध्ययनं त्रिस्थानम्, तृतीयोद्देशकः सूत्रम् 190 पर्युपासनाश्रवणादिफलपरम्परा चतुर्थोद्देशक // 279 // ॥तृतीयाध्ययने चतुर्थोद्देशकः॥ व्याख्यातस्तृतीय उद्देशकः, अधुना चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धः- पूर्वस्मिन्नुद्देशके पुद्गलजीवधर्मास्त्रित्वेनोक्ता इहापित एव तथैवोच्यन्त इत्यनेन सम्बन्धेनायातस्यास्येदमादिसूत्रषट्कं पडिमे'त्यादि,अस्य च पूर्वसूत्रेण सहायमभिसम्बन्धः
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy