________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 278 // तृतीयमध्ययन त्रिस्थानम्, तृतीयोद्देशकः सूत्रम् 190 पर्युपासनाश्रवणादिफलपरम्परा ___ अर्थस्य- लक्ष्याः कथा- उपायप्रतिपादनपरो वाक्यप्रबन्धोऽर्थकथा, उक्तं च-सामादिधातुवादादिकृष्यादिप्रतिपादिका अर्थोपादानपरमा, कथाऽर्थस्य प्रकीर्तिता ॥१॥तथा- अर्थाख्यः पुरुषार्थोऽयं, प्रधानः प्रतिभासते। तृणादपि लघु लोके, धिगर्थरहित नरम्॥१॥इति, इयं च कामन्दकादिशास्त्ररूपा, एवं धर्मोपायकथा धर्मकथा, उक्तं च- दयादानक्षमाद्येषु, धर्माङ्गेषु प्रतिष्ठिता। धर्मोपादेयतागर्भा, बुधैर्धर्मकथोच्यते॥१॥ तथा धर्माख्यः पुरुषार्थोऽयं, प्रधान इति गीयते। पापसक्तं पशोस्तुल्यं, धिग्धर्मरहित नरम् // 2 // इति, इयं चोत्तराध्ययनादिरूपाऽवसेयेति, एवं कामकथाऽपि, यदाह-कामोपादानगर्भा च, वयोदाक्षिण्यसूचिका। अनुरागेङ्गिताधुत्था, कथा कामस्य वर्णिता // 1 // तथा-स्मितं न लक्षेण वचो न कोटिभिर्न कोटिलक्षैः सविलासमीक्षितम् / / अवाप्यतेऽन्यैर्हदयोपगृहनं, न कोटिकोट्याऽपि तदस्ति कामिनाम्॥१॥इति, इयमपि वात्स्यायनादिरूपाऽवसेयेति, प्रकीर्णा वा तत्तदर्था वचनपद्धतिः कथा चरित्रवर्णनरूपा वा, अर्थादिविनिश्चया- अर्थादिस्वरूपपरिज्ञानानि, तानि च-अर्थानामर्जने के दुःखमर्जितानां च रक्षणे। नाशे दुःखं व्यये दुःखं, धिगर्थं दुःखकारणम् // 1 // तथा-धनदो धनार्थिनां धर्मः, कामदः सर्वकामिनाम्। धर्म एवापवर्गस्य, पारम्पर्येण साधकः॥२॥ (धर्मबिन्दौ 1/2) तथा शल्यं कामा विषं कामाः, कामा आशीविषोपमाः / कामानभिलषन्तोऽपि, निष्कामा यान्ति दुर्गतिम्॥२॥इत्यादीनि॥अनन्तरमादिविनिश्चय उक्त इति तत्कारणफलपरम्परां त्रिस्थानकानवतारिणीमपि प्रसङ्गतो भगवत्प्रश्नद्वारेण निरूपयन्नाह तहारूवं णं भंते! समणं वा माहणं वा पञ्जुवासमाणस्स किंफला पजुवासणता?, सवणफला, से णं भंते! सवणे किंफले?, णाणफले, से णं भंते! णाणे किंफले?, विण्णाणफले, एवमेतेणं अभिलावेणं इमा गाधा अणुगंतव्वा-सवणे णाणे य विन्नाणे पच्चक्खाणे य संजमे। अणण्हते तवेचेव वोदाणे अकिरिय निव्वाणे॥१॥जाव से णंभंते! अकिरिया किंफला?, निव्वाणफला, // 278 //