________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 274 // समुदाना विनया सा अज्ञानक्रियेति 2, प्रयोगक्रिया त्रिविधा व्याख्यातार्था 3, नास्त्यन्तरं-व्यवधानं यस्याः साऽनन्तरा सा चासौसमुदानक्रिया तृतीयमध्ययन चेति विग्रहः, प्रथमसमयवर्त्तिनीत्यर्थः, द्वितीयादिसमयवर्तिनी तु परम्परसमुदानक्रियेति, प्रथमाप्रथमसमयापेक्षया तु त्रिस्थानम्, तृतीयोद्देशकः तदुभयसमुदानक्रियेति 4, मइअन्नाणकिरिय त्ति अविसेसिया मइच्चिय सम्मद्दिहिस्स सा मइन्नाणं। मइअन्नाणं मिच्छादिट्ठिस्स सुयंपिड सूत्रम् 187 एमेव॥१॥(विशेषाव० 114) त्ति मत्यज्ञानात् क्रिया- अनुष्ठानं मत्यज्ञानक्रिया, एवमितरे अपि, नवरं विभङ्गो-मिथ्यादृष्टेर- मिथ्यात्वा क्रियावधिः स एवाज्ञानं विभङ्गाज्ञानमिति ५।व्याख्यातमक्रियामिथ्यात्वम्, अविनयमिथ्यात्वव्याख्यानायाह-अविणये त्यादि, प्रयोगविशिष्टो नयो विनयः- प्रतिपत्तिविशेषस्तत्प्रतिषेधादविनयो, देशस्य- जन्मक्षेत्रादेस्त्यागो देशत्यागः स यस्मिन्नविनये ज्ञानक्रियाप्रभुगालीप्रदानादावस्ति स देशत्यागी, निर्गत आलम्बनाद्- आश्रयणीयाद् गच्छकुटुम्बकादेरिति निरालम्बनस्तद्भावो निरालम्बनता-आश्रयणीयानपेक्षत्वमिति भावः, पुष्टालम्बनाभावेन वोचितप्रतिपत्तिभ्रंशः, प्रेम च द्वेषश्च प्रेमद्वेषं नानाप्रकार ज्ज्ञानानां प्रेमद्वेषं नानाप्रेमद्वेषमविनयः, इयमत्र भावना-आराध्यविषयमाराध्यसंमतविषयं वा प्रेम तथाऽऽराध्यासम्मतविषयो द्वेष इत्येवं त्रैविध्यम् नियतावेतौ विनयः स्याद्, उक्तं च- सरुषि नतिः स्तुतिवचनं, तदभिमते प्रेम तविषि द्वेषः / दानमुपकारकीर्तनममन्त्रमूलं वशीकरणम् // 1 // इति, नानाप्रकारौ च तावाराध्यतत्संमतेतरलक्षणविशेषानपेक्षत्वेनानियतविषयावविनय इति, अज्ञानमिथ्यात्वमित उच्यते- अन्नाणे त्यादि, ज्ञानं हि द्रव्यपर्यायविषयो बोधस्तन्निषेधोऽज्ञानं तत्र विवक्षितद्रव्यं देशतो यदा न जानाति तदा देशाज्ञानमकारप्रश्लेषाद्, यदा च सर्वतस्तदा सर्वाज्ञानम्, यदा विवक्षितपर्यायतो न जानाति तदा भावाज्ञानमिति, अथवा देशादिज्ञानमपि मिथ्यात्वविशिष्टमज्ञानमेवेति अकारप्रश्लेषं विनापिनदोष इति / उक्तं मिथ्यात्वम्, तच्चाधर्म इति तद्विपर्यय 7 अविशेषिता मतिरेव सम्यग्दृष्टेः सा मतिज्ञानम्। मत्यज्ञानं मिथ्यादृष्टेः श्रुतमप्येवमेव // 1 // ॐ विषयादविनय० (मु०)। // 274 //