________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 273 // मिथ्यात्वाद् गतिर्जन्तूनां भवतीति अथवा नया मिथ्यादृश इति सम्बन्धान्मिथ्यात्वस्वरूपमाह तिविधे मिच्छत्ते पं० तं०- अकिरिता अविणते अन्नाणे 1, अकिरिया तिविधा पं० तं०-पओगकिरिया समुदाणकिरिया अन्नाणकिरिया 2, पओगकिरिया तिविधा पं० तं०-मणपओगकिरिया वइपओगकिरिया कायपओगकिरिया 3, समुदाणकिरिया तिविधा पं० तं०- अणंतरसमुदाणकिरिया परंपरसमुदाणकिरिया तदुभयसमुदाणकिरिता 4, अन्नाणकिरिता तिविधा पं० तं०- मतिअन्नाणकिरिया सुतअन्नाणकिरिया विभंगअन्नाणकिरिया 5, अविणते तिविहे पं० तं०- देसच्चाती निरालंबणता नाणापेजदोसे 6, अन्नाणे तिविधे पं० तं०- देसण्णाणे सव्वण्णाणे भावन्नाणे ७॥सूत्रम् 187 // तिविधे मिच्छत्ते इत्यादि, सूत्राणि सप्त सुगमानि, नवरं मिथ्यात्वं विपर्यस्तश्रद्धानमिह न विवक्षितम्, प्रयोगक्रियादीनां वक्ष्यमाणतढ़ेदानामसम्बद्ध्यमानत्वात्, ततोऽत्र मिथ्यात्वं क्रियादीनामसम्यग्रूपता मिथ्यादर्शनानाभोगादिजनितो विपर्यासो दुष्टत्वमशोभनत्वमिति भावः, अकिरियत्ति नञिह दुःशब्दार्थो यथा अशीला दुःशीलेत्यर्थस्ततश्चाक्रिया- दुष्टक्रिया मिथ्यात्वाधुपहतस्यामोक्षसाधकमनुष्ठानम्, यथा मिथ्यादृष्टेनिमप्यज्ञानमिति, एवमविनयोऽपि, अज्ञान- असम्यग्ज्ञानमिति 1, अक्रिया हि अशोभना क्रियैवातोऽक्रिया त्रिविधेत्यभिधायापि प्रयोगेत्यादिना क्रियैवोक्तेति, तत्र वीर्यान्तरायक्षयोपशमाविर्भूतवीर्येणात्मना प्रयुज्यते- व्यापार्यत इति प्रयोगो-मनोवाकायलक्षणस्तस्य क्रिया-करणं व्यापृतिरिति प्रयोगक्रिया, अथवा प्रयोगैर्मनःप्रभृतिभिः क्रियते- बध्यत इति प्रयोगक्रिया कर्मेत्यर्थः, सा च दुष्टत्वादक्रिया, अक्रिया च मिथ्यात्वमिति सर्वत्र प्रक्रमः, समुदाणं तिप्रयोगक्रिययैकरूपतया गृहीतानां कर्मवर्गणानां समिति-सम्यक् प्रकृतिबन्धादिभेदेन देशसर्वोपघातिरूपतया च आदानं- स्वीकरणं समुदानं निपातनात्तदेव क्रिया- कर्मेति समुदानक्रियेति, अज्ञानाद् वा चेष्टा कर्म वा तृतीयमध्ययनं त्रिस्थानम्, तृतीयोद्देशक: सूत्रम् 187 मिथ्यात्वाऽक्रियाप्रयोगसमुदानाज्ज्ञानक्रियाविनयाज्ज्ञानानां त्रैविध्यम् // 273 //