SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ श्रीस्थाना वृत्तियुतम् भाग-१ // 272 // प्रयोगमिश्रविस्रसापुदला:, विशेषेण वा सामान्यमवह्रियते- निराक्रियतेऽनेनेति लोकव्यवहारपरो वा व्यवहारो- विशेषमात्राभ्युपगमपरः 3, एतेषांक तृतीयमध्ययन नयानां मतेनेति गम्यम्, ऋजु-अवक्रमभिमुखं श्रुतं-श्रुतज्ञानं यस्येति ऋजुश्रुत, ऋजुवा- अतीतानागतवक्रपरित्यागाद्वर्त्तमानं त्रिस्थानम्, तृतीयोद्देशक: वस्तु सूत्रयति-गमयतीति ऋजुसूत्रः-स्वकीयंसाम्प्रतंच वस्तु नान्यदित्यभ्युपगमपरः 4, शप्यते- अभिधीयतेऽभिधेयमनेनेति सूत्रम् 186 शब्दो- वाचको ध्वनिः, नयन्ति- परिच्छिन्दन्त्यनेकधर्मात्मकं सद्वस्तु सावधारणतयैकेन धर्मेणेति नयाः शब्दप्रधाना नयाः शब्दनयाः, ते च त्रयः- शब्दसमभिरूडैवंभूताख्याः , तत्र शपनमभिधानं शप्यते वा यः शप्यते वा येन वस्तु स शब्दः, तदभिधेयविमर्शपरो नयोऽपिशब्द एवेति, सच भावनिक्षेपरूपं वर्तमानमभिन्नलिङ्गवाचकं बहुपर्यायमपिच वस्त्वभ्युपगच्छ- नरकतीति 5, वाचकं वाचकं प्रति वाच्यभेदं समभिरोहति- आश्रयति यः स समभिरूढः, स ानन्तरोक्तविशेषणस्यापि वस्तुनः प्रतिष्ठानम्, नयविचारच शक्रपुरन्दरादिवाचकभेदेन भेदमभ्युपगच्छति घटपटादिवदिति 6, यथा शब्दार्थो घटते-चेष्टत इति घट इत्यादिलक्षण: एव (नयस्वरूपम्) मिति तथाभूतः सत्यो घटादिरर्थो नान्यथेत्येवमभ्युपगमपर एवंभूतो नयः, अयं हि भावनिक्षेपादिविशेषणोपेतं व्युत्पत्त्यर्थाविष्ट-2 मेवार्थमिच्छति, जलाहरणादिचेष्टावन्तं घटमिवेति 7, तत्राद्यत्रयस्याशुद्धत्वात् प्रायो लोकव्यवहारपरत्वाच्च पृथिवीप्रतिष्ठितत्वं नरकाणामिति मतम्, चतुर्थस्य शुद्धत्वाद् आकाशस्य च गच्छत्तां तिष्ठतांवा सर्वभावानामैकान्तिकाधारत्वाद् भुवोऽनैकान्तिकत्वाच्चाकाशप्रतिष्ठितत्वमिति, त्रयाणांतु शुद्धतरत्वात् सर्वभावानांस्वभावलक्षणाधिकरणस्यान्तरङ्गत्वादव्यभिचारित्वाच्च आत्मप्रतिष्ठितत्वमिति, न हि स्वस्वभावं विहाय परस्वभावाधिकरणा भावाः कदाचनापि भवन्तीति, यत आह-वत्थु वसइ सहावे सत्ताओ चेयणव्व जीवम्मि। न विलक्खणत्तणाओ भिन्ने अन्यत्र छायातवे चेव॥१॥ (विशेषाव० 2042) इति, नरकेषु च ®शब्द्यते (मु०)। 0 शब्दनम०1 0जीवे चेतनेव वस्तु स्वभावे वसति सत्त्वात् छायातपाविव वैलक्षण्यादन्यत्र न / // 272 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy