________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 271 // स्पर्द्धा सन्तर्जनञ्च- अस्यास्मन्मित्रविग्रहस्य परित्राणं मत्तो भविष्यतीत्यादिकरूपमिति, प्रदानलक्षणमिदं- यः सम्प्राप्तो धनोत्सर्ग, उत्तमाधममध्यमः / प्रतिदानं तथा तस्य 1, गृहीतस्यानुमोदनम् 2 // 1 // द्रव्यदानमपूर्वं च 3, स्वयंग्राहप्रवर्त्तनम् 4 / देयस्य प्रतिमोक्षश्च 5, दानं पञ्चविधं स्मृतम् ॥१॥धनोत्सर्गो- धनसम्पत्, स्वयंग्राहप्रवर्त्तनं- परस्वेषु, देयप्रतिमोक्ष- ऋणमोक्ष इति, प्रयोगश्चासामेवं- उत्तम प्रणिपातेन, शूरं भेदेन योजयेत् / नीचमल्पप्रदानेन, समं तुल्यपराक्रमैः॥१॥ इति / अनन्तरं जीवा धर्मतः प्ररूपिताः, इदानीं पुद्गलांस्तथैव प्ररूपयन्नाह तिविहा पोग्गलापं० तं०-पओगपरिणता मीसापरिणता वीससापरिणता, तिपतिट्ठिया णरगा पं० तं०-पुढविपतिट्ठिता आगासपतिट्ठिता आयपइट्ठिआ, णेगमसंगहववहाराणं पुढविपइट्ठिया उज्जुसुतस्स आगासपतिट्ठिया तिण्हं सद्दणताणं आयपतिट्ठिया // सूत्रम् 186 // तिविहा पुग्गला इत्यादि, प्रयोगपरिणता- जीवव्यापारेण तथाविधपरिणतिमुपनीता, यथा पटादिषु कर्मादिषु वा, मीस त्ति प्रयोगविनसाभ्यां परिणता, यथा पटपुद्गला एव प्रयोगेण पटतया विनसापरिणामेन चाभोगेऽपि पुराणतयेति, विस्रसास्वभावस्तत्परिणता अभ्रेन्द्रधनुरादिवदिति / पुद्गलप्रस्तावाद्विस्रसापरिणतपुद्गलरूपाणां नरकावासानां प्रतिष्ठाननिरूपणायाहतिपइट्ठिए त्यादि, स्फुटम्, केवलं नरका- नारकावासा आत्मप्रतिष्ठिता:- स्वरूपप्रतिष्ठिताः / तत्प्रतिष्ठानं नयैराह- णेगमे त्यादि, नैकेन-सामान्यविशेषग्राहकत्वात् तस्यानेकेन ज्ञानेन मिनोति-परिच्छिनत्तीति नैकमः, अथवा निगमा- निश्चितार्थबोधास्तेषु कुशलो भवो वा नैगमः, अथवा नैको गमोऽर्थमार्गो यस्य स प्राकृतत्वेन नैगमः 1, संग्रहणं भेदानां सङ्गह्नाति वा तान् संगृह्यन्ते वा ते येन स सङ्ग्रहो- महासामान्यमात्राभ्युपगमपर इति 2, व्यवहरणं व्यवह्रियते वा स व्यवह्रियते वा तृतीयमध्ययनं त्रिस्थानम्, तृतीयोद्देशकः सूत्रम् 186 प्रयोगमिश्रविस्रसापुदलाः , नरकप्रतिष्ठानम्, नयविचारश्च (नयस्वरूपम्) B // 271 //