________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 270 // 21, लौकिक इति 6, लौकिकः सामान्यलोकाश्रयो निश्चयोऽनुष्ठानं वा, वेदाश्रितो वैदिकः, समय:- सायादीनां सिद्धान्त- तृतीयमध्ययन स्तदाश्रितस्तु सामयिकः 7, लौकिकादयो व्यवसायाः प्रत्येकं त्रिविधास्ते च प्रतीता एव, नवरमर्थधर्मकामविषयो निर्णयोल त्रिस्थानम्, तृतीयोद्देशकः यथा- अर्थस्य मूलं निकृतिः क्षमा च, धर्मस्य दानं च दया दमश्च / कामस्य वित्तं च वपुर्वयश्च, मोक्षस्य सर्वोपरमः क्रियासु॥१॥ सूत्रम् इत्यादिरूपस्तदर्थमनुष्ठानं वा अर्थादिरेव व्यवसाय उच्यते इति 8, ऋग्वेदाद्याहितो निर्णयो व्यापारो वा ऋग्वेदादिरेवेति 9, 183-185 कर्मभूमयः, ज्ञानादीनि सामा(म)यिको व्यवसायः, तत्र ज्ञानं व्यवसाय एव, पर्यायशब्दत्वाद्, दर्शनमपि श्रद्धानलक्षणं व्यवसायो, दर्शनरुचिव्यवसायांशत्वात्तस्येति प्रतिपादितमेव, चारित्रमपि समभावलक्षणो व्यवसाय एव, बोधस्वभावस्यात्मनः परिणतिविशेष- प्रयोगाः, व्यवसायाः त्वाद्, यच्चोच्यते, सच्चरणमणुट्ठाणं विहिपडिसेहाणुगं तत्थ तत्र तद्बाह्यचारित्रापेक्षमवगन्तव्यमिति, अथवा ज्ञानादौ विषये यो व्यवसायो-बोधोऽनुष्ठानं वास विषयभेदात् त्रिविध इति, सामा(म)यिकता चास्य सम्यग्मिथ्याशब्दलाञ्छितस्य ज्ञानादि- अर्थयोनयः त्रयस्य सर्वसमयेष्वपि भावादिति 10, अर्थस्य- राजलक्ष्म्यादेोनिरुपायोऽर्थयोनिः साम-प्रियवचनादि दण्डो-वधादिरूपः परनिग्रहो भेदो- जिगीषितशत्रुपरिवर्गस्य स्वाम्यादिस्नेहापनयनादिः, क्वचित्तु दण्डपदत्यागेन प्रदानेन सह तिम्रोऽर्थयोनयः पठ्यन्ते, भवन्ति चात्र श्लोकाः- परस्परोपकाराणां, दर्शनं 1 गुणकीर्तनम् 2 / सम्बन्धस्य समाख्यान 3 मायत्याः संप्रकाशनम् 4 // 1 // अस्मिन्नेवं कृते इदमावयोर्भविष्यतीत्याशाजननमायतिसंप्रकाशनमिति, वाचा पेशलया साधु तवाहमितिचार्पणम् 5 / इति सामप्रयोगज्ञैः, साम पञ्चविधं स्मृतम्॥१॥ वधश्चैव 1 परिक्लेशो 2, धनस्य हरणं तथा 3 / इति दण्डविधानज्ञैर्दण्डोऽपि त्रिविधः स्मृतः॥२॥स्नेहरागापनयनं 1, संहर्षोत्पादनं तथा 2 / सन्तर्जनं च 3 भेदज्ञैर्भेदस्तु त्रिविधः स्मृतः॥३॥संहर्षः ॐ तत्र विधिप्रतिषेधानुगमनुष्ठानं सच्चारित्रम्। // 270 //