________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 269 // तृतीयमध्ययनं त्रिस्थानम्, तृतीयोद्देशकः सूत्रम् |183-185 कर्मभूमयः, दर्शनरुचिप्रयोगा: व्यवसाया: 21, तिविहे ववसाए पं० तं०- धम्मिते ववसाते अधम्मिए ववसाते धम्मियाधम्मिए ववसाते 4, अथवा तिविधे ववसाते पं० तं०पच्चक्खे पच्चतिते आणुगामिए 5, अहवा तिविधेववसाते पं० तं०- इहलोइए परलोइए इहलोगितपरलोगिते 6, इहलोगिते ववसाते तिविहे पं० तं०- लोगिते वेतिते सामतिते 7, लोगिते ववसाते तिविधेपं० तं०- अत्थे धम्मे कामे 8, वेतिगेववसाते तिविधे पं० तं०रिउव्वेदे जउव्वेदे सामवेदे ९,सामइते ववसाते तिविधे पं०, तं०-णाणे दंसणे चरित्ते १०,तिविधा अत्थजोणी पं० तं०-सामे दंडे भेदे 11 // सूत्रम् 185 // जम्बुद्दीवे त्यादि सूत्राणि साक्षादतिदेशाभ्यां पञ्च सुगमानि चेति / उक्ताः कर्मभूमयः, अथ तद्गतजनधर्मनिरूपणायाह - तिविहे त्यादि सूत्राण्येकादश कण्ठ्यानि, किन्तु त्रिविधं दर्शनं-शुद्धाशुद्धमिश्रपुञ्जत्रयरूपं मिथ्यात्वमोहनीयम्, तथाविधदर्शनहेतुत्वादिति 1, रुचिस्तु तदुदयसम्पाद्यं तत्त्वानां श्रद्धानं 2, प्रयोगः सम्यक्त्वादिपूर्वोमनःप्रभृतिव्यापार इति अथवा सम्यगादिप्रयोगः-उचितानुचितोभयात्मक औषधादिव्यापार इति 3, व्यवसायो वस्तुनिर्णयः पुरुषार्थसिद्ध्यर्थमनुष्ठानं वा, स च व्यवसायिनां धार्मिका 1 धार्मिक 2 धार्मिकाधार्मिकाणां संयतासंयतदेशसंयतलक्षणानां सम्बन्धित्वादभेदेनोच्यमानस्त्रिधा भवतीति, संयमासंयमदेशसंयमलक्षणविषयभेदाद्वा 4, व्यवसायो- निश्चयः, स च प्रत्यक्षोऽवधिमनःपर्यायकेवलाख्यः, प्रत्ययाद्- इन्द्रियानिन्द्रियलक्षणानिमित्ताज्जातः प्रात्ययिकः, साध्यं- अग्न्यादिकमनुगच्छति साध्याभावे न भवति यो धूमादिहेतुः सोऽनुगामी ततो जातमानुगामिकं- अनुमानंतद्रूपो व्यवसाय आनुगामिक एवेति, अथवा प्रत्यक्षः- स्वयंदर्शनलक्षणः प्रात्ययिकः- आप्तवचनप्रभवस्तृतीयस्तथैवेति 5, इहलोके भव ऐहलौकिको- य इह भवे वर्तमानस्य निश्चयोऽनुष्ठानं वा स ऐहलौकिको व्यवसाय इति भावः, यस्तु परलोके भविष्यति स पारलौकिकः, यस्त्विह परत्र च स ऐहलौकिकपार अर्थयोनयः