________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 5 // प्रवृत्तिःफलम. नादिस्थानमपि द्रष्टव्यम्, ऊर्ध्वशब्दस्योपलक्षणत्वादिति, तथा उपरतिः- विरतिः सैव स्थानं विविधगुणानामाश्रयत्वात्, प्रथममध्ययनविशेषार्थो वेह स्थानशब्दः ततो विरते: स्थानं-विशेषो विरतिस्थानम्, तच्च देशविरतिः सर्वविरतिर्वेति, तथा वसतिः स्थानमु मेकस्थानम्, फलादिच्यते,स्थीयते तस्मिन्नितिकृत्वेति, तथा संयमस्य स्थानं संयमस्थानम्, इह स्थानशब्दो भेदार्थः, संयमस्य शुद्धिप्रकर्षापकर्षकृतोद्वारनिरूपणविशेषः संयमस्थानम्, तथा प्रगृह्यते- उपादीयते आदेयवचनत्वाद्यः स प्रग्रहो- ग्राह्यवाक्यो नायक इत्यर्थः, स च लौकिको पूर्वकमनुयोगलोकोत्तरश्चेति, तत्र लौकिको राजयुवराजमहत्तरामात्यकुमाररूपो, लोकोत्तरश्चाचार्योपाध्यायप्रवर्तिस्थविरगणावच्छेदकरूप मङ्गलम्, समुदायार्थे, इति, तस्य स्थानं- पदं प्रग्रहस्थानमिति, तथा योधानां स्थानं-आलीढप्रत्यालीढवैशाखमण्डलसमपादरूपं शरीरन्यास-1 स्थाननिक्षेपाः विशेषात्मकं योधस्थानम्, तथा अचल त्ति अचलतालक्षणो धर्मः सादिसपर्यवसितादिरूपः स्थानमचलतास्थानम्, तथा |15, अङ्गनिक्षेपा गणण त्तिगणनाविषयं स्थानमेकव्यादिशीर्षप्रहेलिकापर्यन्तंगणनास्थानम्, तथा सन्धानं द्रव्यतश्छिन्नस्य कञ्चकादेरच्छिन्नस्य |4, सप्रभेदा तु पक्ष्मोत्पद्यमानतन्त्वादेरिति, भावतस्तु छिन्नस्य प्रशस्ताप्रशस्तभावस्य पुनः सन्धानमच्छिन्नस्य त्वपरापरोत्पद्यमानस्य | उपक्रम निक्षेपाऽनुगमप्रशस्ताप्रशस्तभावस्य सन्धानं तदेव स्थानं- वस्तुनः संहतत्वेनावस्थानं सन्धानस्थानम्, भावे त्ति भावानां- औदयिकादीनां नयाः,प्रस्तुते स्थानं- अवस्थितिरिति भावस्थानमिति / एवमिह स्थानशब्दोऽनेकार्थः, इह च वसतिस्थानेन गणनास्थानेन चाधिकार इति दर्शयिष्यते // इदानीमङ्गनिक्षेप उच्यते, तत्र गाथा-नामंगं ठवणंगं दव्वंग चेव होइ भावंगं / एसो खलु अंगस्सा निक्खेवो निक्षेपा: चउन्विहो होइ॥१॥ (उत्तरा०नि० १८४)त्ति, तत्र नामस्थापने प्रसिद्धे, द्रव्याकं पुनर्द्रव्यस्य- मद्यौषधादेरङ्ग-कारणमवयवो वेति द्रव्याङ्गम्, भावस्य-क्षायोपशमिकादेरेवमेवाङ्गंभावाङ्गमिति, इह भावाङ्गेनाधिकार इत्यपि दर्शयिष्यते, तत्र तिष्ठन्त्या®प्रवर्तक० (मु०)। 0 वाऽधि० (मु०)। 0 नामाङ्ग स्थापनाङ्गं द्रव्याङ्गं चैव भवति भावाङ्गम् / एष खलु अङ्गस्य निक्षेपश्चतुर्विधो भवति / 0 इह च प्र. / समवतारः, // 5 //