________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ प्रथममध्ययनमेकस्थानम्, फलादिद्वारनिरूपणपूर्वकमनुयोगप्रवृत्तिःफलम्, मङ्गलम्, समुदायार्थे, स्थाननिक्षेपाः // 4 // दद्वयं धेयानां वा गणधरणस्थानानां क्षायोपशमिकादिभावरूपतया मङ्गलत्वादिति, अन्तमङ्गलं तु दशमाध्ययनस्यान्तसूत्रं 'दसगुणलुक्खा पोग्गला अणंता पण्णत्ते' तीहानन्तशब्दस्य वृद्धिशब्दवन्मङ्गलत्वादिति, सर्वमेव वा शास्त्रं मङ्गलम्, निर्जरार्थत्वात्, तपोवत्, मङ्गलभूतस्यापि शास्त्रस्य यो मङ्गलत्वानुवादः स शिष्यमतिमङ्गलत्वपरिग्रहार्थं, मङ्गलतया हि परिगृहीतं शास्त्रं मङ्गलं स्याद्, यथा साधुः, इत्यलं प्रसङ्गेनेति, इह च शास्त्रस्य मङ्गलादि निरूपितमपि तदनुयोगस्य द्रष्टव्यम्, तयोः कथञ्चिदभेदादिति 3 / अथेदानीं समुदायार्थश्चिन्त्यते- तत्र स्थानाङ्गमित्येतच्छास्त्रनाम, नाम च यथार्थादिभेदात् त्रिविधम्, तद्यथा- यथार्थमयथार्थमर्थशून्यं च, तत्र यथार्थं प्रदीपादि, अयथार्थं पलाशादि, अर्थशून्यं डित्थादि, तत्र यथार्थं शास्त्राभिधानमिष्यते, तत्रैव समुदायार्थपरिसमाप्तेः, यत एवमतस्तन्निरूप्यते- तत्र च स्थानमङ्गं निक्षेपणीयमिति, तत्र स्थानं नामस्थापनादिभेदात् पञ्चदशधा, यदाह- नामठवादविएखेत्तद्धा उड्ड उवरती संजमपर्णहजोहे अर्चलगणणसंधणाभावे॥१॥(आचा०नि० १८४)त्ति, तत्र स्थानमिति नामैव नामस्थानम्, यस्य वा सचेतनस्याचेतनस्य वा स्थानमिति नाम क्रियते तद्वस्तु नाम्ना स्थानं नामस्थानमित्युच्यते, तथा स्थाप्यत इति स्थापना- अक्षादिः, सा स्थानाभिप्रायेण स्थाप्यमाना स्थानमित्यभिधीयते, ततः स्थापनैव स्थानं स्थापनास्थानम्, तथा द्रव्यं- सचित्ताचित्तमिश्रभेदं स्थानं गुणपर्यायाश्रयत्वात् ततः कर्मधारय इति, तथा क्षेत्रं- आकाशम्, तच्च तत् स्थानंच द्रव्याणामाश्रयत्वात् क्षेत्रस्थानम्, तथा अद्धा- कालः, सच स्थानम्, यतो भवस्थितिः कायस्थितिश्च भवकालः कायकालश्चाभिधीयते, स्थितिश्च स्थानमेवेति, उत्ति ऊर्ध्वतया स्थानं-अवस्थानं पुरुषस्य ऊर्ध्वस्थानं-कायोत्सर्ग इति, इह स्थानशब्दः क्रियावचनः, एवं निषण्णत्वग्वर्त्त 0 गणधरस्थानानां (मु०)। O कथंचिद्रेदा०प्र.10 सा च स्थाना०..स्थानमप्यभिधीयते (मु०) ।अपिना अन्यव्यपदेशा अपि०। 0 निषदनत्वम्व० (मु०)। ही। अङ्गनिक्षेपा ४,सप्रभेदा उपक्रमनिक्षेपाऽनुगमनयाः,प्रस्तुते समवतारः, एककनिक्षेपा: // 4 //