________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 264 // सूत्रम् 182 पिण्डैषणेति, एवं च वृद्धव्याख्यापरिवेषकः पिढिकायाः कूरंगृहीत्वा यस्मै दातुकामस्तद्भाजने क्षेप्तुमुपस्थितस्तेन च भणितंमा देहि, अत्रावसरे प्राप्तेन साधुना धर्मलाभितम्, ततः परिवेषको भणति-प्रसारय साधो! पात्रं, ततः साधुना प्रसारिते पात्रे क्षिप्तमोदनम्, इह च संयतप्रयोजने गृहस्थेन हस्त एव परिवर्तितो नान्यद् गमनादि कृतमिति जघन्यमाहृतजातमिति, इह च व्यवहारभाष्यश्लोकः-भुजमाणस्स उक्खित्तं, पडिसिद्धं तं च तेण उ। जहन्नोवहडं तं तु, हत्थस्स परियत्तणा // 1 // (व्यव० 9/ 3838) इति, तथा यच्च परिवेषकः स्थानादविचलन्संहरति- भक्तभाजनाभोजनभाजनेषु क्षिपति तच्चावगृहीतमिति प्रक्रमः, श्लोकोऽत्र-अह साहीरमाणं तु, वटुंतो (परिवेषयन्नित्यर्थः) जो उ दायओ। दलेज्जाविचलिओ तत्तो, छट्ठी एसावि एसणा॥ 1 // (व्यव०९/३८२९) इति, तथा यच्च भक्तमास्यके-पिठरादिमुखे क्षिपति तच्चावगृहीतमिति, एवं चात्र वृद्धव्याख्या- कूरमवह्लादननिमित्तं कलिंजादिभाजने विशालोत्तानरूपे क्षिप्तं ततो भाक्तिकेभ्यो दत्तं ततो भुक्तशेषं यद्भूयः पिठरके प्रकाशमुखे क्षिपन्ती दद्यात् परिवेषयन्ती वा प्रकाशमुखे भाजने तत् तृतीयमवगृहीतम्, श्लोकोऽत्र-भुत्तसेसं तु जंभूओ, छुन्भंती पिठरे दये। संवटुंती व अन्नस्स, आसगंमि पगासए॥१॥ (व्यव० 9/3830) इति, ननु आस्ये- मुखे यत् प्रक्षिपतीति मुख्यार्थे सति किं पिठरकादिमुखे इति व्याख्यायत इति?, उच्यते आस्यप्रक्षेपव्याख्यानमयुक्तं, जुगुप्साभावादिति, आह च-पक्खेवए दुगुंछा, आएसो कुडमुहाईसु (व्यव०९/३८२६)न्ति 5 / अवमं- ऊनमुदरं-जठरं यस्य सोऽवमोदरः, अवमंवोदरमवमोदरं तद्भावोऽव भुञ्जमानस्य उत्क्षिप्तं प्रतिषिद्धं तच्च तेन तु। जघन्योपहृतं तत्तु हस्तस्य परिवर्तनात् // 1 // 0 अथ संहियमानमेव वेषको यो वेषयन् दद्यादचलितस्ततः षष्ठ्येषाऽप्येषणा // 1 // 0 भुक्तशेषन्तु यद् भूयः क्षिपन्ती पिठरे दद्यात् / परिवेषयन्ती वान्यस्य आस्ये प्रकाशे // 1 // 7 (मुखे) प्रक्षेपे जुगुप्सा पिठरादिमुखेष्वादेशः (जुगुप्साया अभावात्)। तृतीयमध्ययन त्रिस्थानम्, तृतीयोद्देशकः उत्स्वेदिमा| दिपानीयम् ९-उपहतोद्गृहीता:वमोदरिकाउहितहितचेष्टाशल्यतेजो-लेश्याहेतु दत्त्येकरात्र्य ननुपालन पालनफलानि, (प्रतिमास्वरूपम्) // 264 //