________________ ततीयमध्ययन त्रिस्थानम्, तृतीयोद्देशकः सूत्रम् 182 उत्स्वेदिमादिपानीयम् ९-उपहतोदगृहीताऽबमोदरिकाऽहितहितचेष्टाशल्यतेजो-लेश्या श्रीस्थानाङ्ग यत्र तपसितत् चतुर्थभक्तं तद्यस्यास्ति स चतुर्थभक्तिकस्तस्य, एवमन्यत्रापि,शब्दव्युत्पत्तिमात्रमेतत्, प्रवृत्तिस्तु चतुर्थभक्तादिश्रीअभय० शब्दानामेकाद्युपवासादिष्विति, भिक्षणं शीलं धर्मस्तत्साधुकारिता वा यस्य स भिक्षुर्भिनत्ति वा क्षुधमिति भिक्षुस्तस्य वृत्तियुतम् भाग-१ पानकानि-पानाहारा उत्स्वेदेन निर्वृत्तमुत्स्वेदिमं-येन व्रीह्यादिपिष्टंसुराद्यर्थमुत्स्वेद्यते, तथा संसेकेन निर्वृत्तमिति संसेकिम॥२६३॥ अरणिकादिपत्रशाकमुत्क्वा येन शीतलजलेन संसिच्यते तदिति, तन्दुलधावनं प्रतीतमेव 1, तिलोदकादि तत्तत्प्रक्षालनजलम्, नवरंतुषोदकं-व्री दकं २,आयामकं-अवश्रावणं सौवीरकं-काञ्जिकं शुद्धविकट-उष्णोदकं 3, उपहृतमुपहितम्, भोजनस्थाने ढौकितं भक्तमिति भावः, फलिकं-प्रहेणकादि, तच्च तदुपहृतं चेति फलिकोपहृतमवगृहीताभिधानपञ्चमपिण्डैषणाविषयभूतमिति, यदाह व्यवहारभाष्ये- फलियं पहेणगाई वंजणभक्खेहिं वाऽविरहियं जं तु। भोत्तुमणस्सोवहियं पंचमपिंडेसणा एस॥१॥(व्यव०९/३८२१) इति, तथा शुद्धम्- अलेपकृतं शुद्धोदनंच, तच्च तदुपहृतं चेति शुद्धोपहृतम्, एतच्चाल्पलेपाभिधानचतुर्थेषणाविषयभूतमिति, तथा संसृष्टं नाम-भोक्तुकामेन गृहीतं कूरादौ क्षिप्ते हस्तः क्षिप्तो न तावद् मुखे क्षिपति तच्च लेपालेपकरणस्वभावमिति, तदेवंभूतमुपहृतं संसृष्टोपहृतम्, इदं चतुर्थेषणात्वेन भजनीयम्, लेपालेपकृतादिरूपत्वादस्येति, अत्र गाथा- सुद्धं च अलेवकडं अहव ण सुद्धोदणो भवे सुद्धं / संसर्ट आउत्तं (भोक्तुमारब्धमित्यर्थः) लेवाडमलेवडं वावि॥१॥ (व्यव० 9/3820) इति, इह च त्रये एकत्वद्वित्रिसंयोगैः सप्ताभिग्रहवन्तःसाधवो भवन्तीति 4 / अवगृहीतं- नाम केनचित् प्रकारेण दायकेनात्तं भक्तादि य दिति भक्तम्, चकाराः समुच्चयार्था अवगृह्णाति- आदत्ते हस्तेन दायकस्तदवगृहीतम्, एतच्च षष्ठी Oमुत्काल्य (मु०)। फलिकं प्रहेणकादि यद् व्यञ्जनभक्ष्यैर्वाविरहितम्। भोक्तुमनस उपहृतं पञ्चमी पिंडैषणैषा // 1 // 0 शुद्धं चालेपकृतमथवा शुद्धौदनः शुद्धं भवेत्संसृष्टमायुक्तं (भोक्तुमारब्धं) लेपकृतमलेपकृतं वापि // 1 // त्रिमासिकीदत्त्येकरात्र्यननुपालनपालनफलानि, (प्रतिमास्वरूपम्) // 263 //