________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 259 // वाससां चोपरागः। दैन्यं तन्द्रा कामरागाङ्गभङ्गो, दृष्टिभ्रान्तिर्वेपथुश्चारतिश्च॥१॥ इति, उव्वेगं ति उद्वेगं- शोकं मयेतश्च्यवनीयं भविष्यतीत्येकम्, तथा मातुरोजः- आर्तवं पितुःशुक्रं तत्तथाविधं किमपि विलीनानामतिविलीनंतयोः-ओजःशुक्रयोरुभयंद्वयं तदुभयं तच्च तत्संसृष्टं च, संश्लिष्टं चेति वा, परस्परमेकीभूतमित्यर्थस्तदुभयसंसृष्टं तदुभयसंश्लिष्टं वा एवंलक्षणो य आहारस्तस्य-गर्भवासकालस्य प्रथमता तत्प्रथमता तस्याम्, प्रथमसमय एवेत्यर्थः, स आहर्त्तव्यः- अभ्यवहार्यो भविष्यतीति द्वितीयम्, तथा कलमलो- जठरद्रव्यसमूहः स एव जम्बाल:- कईमो यस्यांसा तथा तस्यामत एवाशुचिकायामुद्वेजनीयायांउद्वेगकारिण्यां भीमायां- भयानिकायां गर्भ एव वसतिर्गर्भवसतिस्तस्यां वस्तव्यमिति तृतीयम्, अत्र गाथे भवत:- देवावि देवलोए दिव्वाभरणाणुरंजियसरीरा / जं परिवडंति तत्तो तं दुक्खं दारुणं तेसिं॥१॥ तं सुरविमाणविभवं चिंतिय चयणं च देवलोगाओ। अइबलियं चिय जनवि फुट्टइ सयसक्करं हिययं॥२॥ (उप०माला 285-86) इति, इच्चेएही त्यादि निगमनम् ॥अथ देववक्तव्यतानन्तरं तदाश्रयविमानवक्तव्यतामाह- तिसंठिए त्यादि, सूत्रत्रयं स्फुटमेव, केवलं त्रीणि संस्थितानि-संस्थानानि येषां तानि त्रिभिर्वा प्रकारैः संस्थितानि त्रिसंस्थितानि, तत्थ णं ति तेषु मध्ये पुक्खरकण्णिए ति पुष्करकर्णिका- पद्ममध्यभागः, सा हि वृत्ता समोपरिभागा च भवति, सर्व्वत इति दिक्षु समन्ता दिति विदिक्षु सिंघाडगं ति त्रिकोणो जलजफलविशेषः एकत एकस्यां दिशि यस्यां वृत्तविमानमित्यर्थः अक्खाडगो चतुरस्रः प्रतीत एव, वेदिका- मुण्डप्राकारलक्षणा, एतानि चैवंक्रमाण्येवावलिकाप्रविष्टानि भवन्ति, पुष्पावकीर्णानि त्वन्यथाऽपीति, भवन्ति चात्र गाथा:- सव्वेसु पत्थडेसु मज्झे वर्ल्ड अणंतरे तंसं। O देवा अपि देवलोके दिव्याभरणानुरञ्जितशरीराः। यत्परिपतन्ति ततस्तद्दुःखं दारुणं तेषाम् // 1 // तं सुरविमानविभवं चिन्तयित्वा च्यवनं च देवलोकाद् अतिबलिष्ठं चैव हृदयं यच्छतशर्करं न स्फुटति। 0 सर्वेषु प्रस्तटेषु मध्ये वृत्तमनन्तरं त्र्यसम्। तृतीयमध्ययनं त्रिस्थानम्, तृतीयोद्देशक: सूत्रम् १७८देवानां स्पृहणीयपरिताप्ये, च्यवनलक्षणोद्वेगहेतवः, विमानानां संस्थानानि आधारो भेदाच, | (भोगाय वैक्रिय विमानम्) // 259 //