SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ तृतीयमध्ययन त्रिस्थानम्, तृतीयोद्देशकः सूत्रम् 176 अल्पमहावृष्टिहेतवः // 252 // प्रतिषेधस्त्ववचनम्, तथाहि-नोतद्वचनं घटापेक्षया पटवचनवत्, नोतदन्यवचनं घटे घटवचनवत्, अवचनं वचननिवृत्तिमात्रमिति, एवं व्याख्यान्तरापेक्षयाऽपि नेयम्, तस्य-देवदत्तादेस्तस्मिन् वा घटादौ मनस्तन्मनस्ततो-देवदत्तादन्यस्य- यज्ञदत्तादेर्घटापेक्षया पटादौ वा मनस्तदन्यमनः, अविवक्षितसम्बन्धिविशेषं तुमनोमानंनोअमन इति, एतदनुसारेणामनोऽप्यूह्यमिति // अनन्तरं संयतमनुष्यादिव्यापारा उक्ताः, इदानीं तु प्रायो देवव्यापारान् ‘तिही'त्यादिभिरष्टाभिः सूत्रैराह तिहिं ठाणेहि अप्पवुट्ठीकाते सिता, तं०-तस्सिंचणं देसंसिवा पदेसंसिवाणो बहवे उदगजोणिया जीवा यपोग्गला य उदगत्ताते वक्कमति विउक्कमति चयंति उववखंति, देवा णागा जक्खा भूता णो सम्ममाराहिता भवंति, तत्थ समुट्ठियं उदगपोग्गलं परिणतं वासितुकामं अन्नं देसंसाहरंति अब्भवद्दलगंचणंसमुट्टितं परिणतंवासितुकामवाउकाए विधुणति, इच्चेतेहिं तिहिं ठाणेहि अप्पवुट्टिगाते सिता 1 / तिहिं ठाणेहिं महावुट्ठीकाते सिता, तंजहा- तंसि च णं देसंसि वा पतेसंसि वा बहवे उदगजोणिता जीवा य पोग्गला य उदगत्ताते वक्कमंति विउक्कमंति चयंति उववजंति, देवा जक्खा नागा भूता सम्ममाराहिता भवंति, अन्नत्थ समुट्ठितं उदगपोग्गलं परिणयं वासिउकामं तं देसं साहरंति अब्भवद्दलगं च णं समुट्ठितं परिणयं वासितुकामं णो वाउआतो विधुणति, इच्चेतेहिं तिहिं ठाणेहिं महावुट्टिकाए सिआ २॥सूत्रम् 176 // सुगमानि चैतानि, किन्तु अप्पवुट्टिकाए त्ति, अल्पः-स्तोकोऽविद्यमानो वा वर्षणं वृष्टिः- अधः पतनं वृष्टिप्रधानः कायोजीवनिकायो व्योमनिपतदप्काय इत्यर्थः, वर्षणधर्मयुक्तं वोदकं वृष्टिः, तस्याः कायो-राशिवृष्टिकायः, अल्पश्चासौ वृष्टिकायश्च अल्पवृष्टिकायः स स्याद् भवेत् तस्मिंस्तत्र- मगधादौ, चशब्दोऽल्पवृष्टिताकारणान्तरसमुच्चयार्थः, णमित्यलङ्कारे, देशे जनपदे प्रदेशे- तस्यैवैकदेशरूपे, वाशब्दौ विकल्पार्थों, उदकस्य योनयः- परिणामिकारणभूता उदकयोनयस्त एवोदक // 252 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy