________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 251 // (आव०नि०६९७, पञ्चा० 586) इति, सेयमाचार्योपसम्पद्, एवमुपाध्यायगणिनोरपीति, एवं विजहण त्ति ‘एव'मित्याचार्य- तृतीयमध्ययन त्वादिभेदेन त्रिधैव विहानं- परित्यागः, तच्च आचार्यादेः स्वकीयस्य प्रमाददोषमाश्रित्य वैयावृत्त्यक्षपणार्थमाचार्यान्तरोप त्रिस्थानम्, तृतीयोद्देशकः सम्पत्त्या भवतीति, आह च-नियगच्छादनंमि उसीयणदोसाइणा होइ (आव०नि०७१८)त्ति, अथवा आचार्यो ज्ञानाद्यर्थमुपसम्पन्न सूत्रम् 175 यतिं तमर्थमननुतिष्ठन्तं सिद्धप्रयोजनंवा परित्यजति यत् साऽऽचार्यविहानिः, उक्तंच-उवसंपन्नोजं कारणं तु तं कारणं अपूरितो। वचनावचन मनोऽमनांसि अहवा समाणियंमी सारणया वा विसग्गो वा // 1 // (आव०नि० ७२०)इति, एवमुपाध्यायगणिनोरपीति // इयमनन्तरं विशिष्टा (तद्वचनादि) साधुकायचेष्टा त्रिस्थानकेऽवतारिता, अधुना तु वचनमनसी तत्पर्युदासौ च तत्रावतारयन्नाह तिविहे वयणे पं० तं०- तव्वयणे तदन्नवयणे णोअवयणे, तिविहे अवयणे पं० तं०- णोतव्वयणे णोतदन्नवयणे अवयणे। तिविहे मणे पं० तं०-तम्मणे तयन्त्रमणे णोअमणे, तिविहे अमणे पं० २०-णोतंमणे णोतयन्नमणे, अमणे॥सूत्रम् 175 // तिविहे इत्यादि सूत्रचतुष्टयम्, अस्य गमनिका-तस्य-विवक्षितार्थस्य घटादेर्वचनं-भणनंतद्वचनं, घटार्थापेक्षया घटवचनवत्, तस्माद्-विवक्षितघटादेरन्यः-पटादिस्तस्य वचनं तदन्यवचनम्, घटापेक्षया पटवचनवत्, नोअवचनं-अभणननिवृत्ति चनमात्रं डित्थादिवदिति, अथवा स:- शब्दव्युत्पत्तिनिमित्तधर्मविशिष्टोऽर्थोऽनेनोच्यत इति तद्वचनं यथार्थनामेत्यर्थो, ज्वलनतपनादिवत्, तथा तस्मात्-शब्दव्युत्पत्तिनिमित्तधर्मविशिष्टादन्यः- शब्दप्रवृत्तिनिमित्तधर्मविशिष्टोऽर्थ उच्यते अनेनेति च तदन्यवचनमयथार्थमित्यर्थः, मण्डपादिवद्, उभयव्यतिरिक्तं नोअवचनम्, निरर्थकमित्यर्थो, डित्थादिवद्, अथवा तस्य // 251 // आचार्यादेर्वचनंतद्वचनंतव्यतिरिक्तवचनंतदन्यवचनं-अविवक्षितप्रणेतृविशेषं नोअवचनं वचनमात्रमित्यर्थः, त्रिविधवचन®निजगच्छादन्यत्र सीदनदोषादिनैव भवति। ॐ यत्कारणमाश्रित्योपसंपन्नस्तत्कारणमपूरयन् अथवा समानिते (संपूर्ण) सारणता च विसर्गो वा // 1 //