SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 243 // पृच्छन्ति, पूर्वकालकृतत्वस्याप्रत्यक्षतया असत्त्वेन दुःखानुभूतेश्च प्रत्यक्षतया सत्त्वेनाकृतकर्मभवनपक्षस्य सम्मतत्वादिति, तृतीयमध्ययनं | पृच्छतांचायमभिप्रायो-यदि निर्ग्रन्था अपि अकृतमेव कर्म दुःखाय देहिनां भवतीति प्रतिपद्यन्ते ततः सुष्टु-शोभनमस्मत्स त्रिस्थानम्, द्वितीयोद्देशकः मानबोधत्वादिति शेषानपृच्छन्तस्तृतीयमेव पृच्छन्तीति भावः,से त्ति अथ तेषामकृतकर्माभ्युपगमवतामेवं-वक्ष्यमाणप्रकार सूत्रम् 167 वक्तव्यं- उल्लाप: स्यात्, त एव वा एवमाख्यान्ति परान् प्रति, यदुत- अथैवं वक्तव्यं- प्ररूपणीयं तत्त्ववादिनांस्यात्- भवेद, अकृतदुःखा दिखण्डनम् अकृते सति कर्मणि दुःखभावाद् अकृत्यं-अकरणीयमबन्धनीयं-अप्राप्तव्यमनागते काले जीवानामित्यर्थः, किं?- दुक्खं दुःखहेतुत्वात् कर्म, अफुस्सं ति अस्पृश्यं कर्म अकृतत्वादेव, तथा क्रियमाणंच- वर्तमानकाले बध्यमानं कृतं चातीतकाले। बद्धं क्रियमाणकृतं द्वन्द्वैकत्वं कर्मधारयो वा न क्रियमाणकृतमक्रियमाणकृतं, किं तत्?- दुःखं- कर्म अकिच्चं दुक्ख मित्यादिपदत्रयं, 'तत्थ जा सा अकडा कज्जइतंपुच्छं'त्यन्यतीर्थिकमताश्रितं कालत्रयालम्बनमाश्रित्य त्रिस्थानकावतारोऽस्य द्रष्टव्यः, किमुक्तं भवतीत्याह- अकृत्वा अकृत्वा कर्म प्राणा- द्वीन्द्रियादयो भूताः- तरवो जीवाः- पञ्चेन्द्रियाः सत्त्वाःपृथिव्यादयो, यथोक्तं- प्राणा द्वित्रिचतुः प्रोक्ता, भूतास्तु तरवः स्मृताः। जीवाः पञ्चेन्द्रिया ज्ञेयाः, शेषाः सत्त्वाः प्रकीर्तिताः॥१॥ इति, वेदनां- पीडां वेदयन्तीति वक्तव्यमित्ययं तेषामुल्लापः, एतद्वा ते अज्ञानोपहतबुद्धयो भाषन्ते परान् प्रति, यदुत- एवं वक्तव्यं स्यादिति प्रक्रमः॥ एवमन्यतीर्थिकमतमुपदर्श्य निराकुर्वन्नाह-जे ते इत्यादि, य एते अन्यतीर्थिका एवं- उक्तप्रकारमाहंसुत्ति- उक्तवन्तः मिथ्या असम्यक् ते अन्यतीर्थिका एवमुक्तवन्तः, आहंसु त्ति उक्तवन्तोऽकृतायाः क्रियात्वानुपपत्तेः, क्रियत इति हि क्रिया, यस्यास्तु कथञ्चनापि करणं नास्ति सा कथं क्रियेति, अकृतकर्मानुभवने हि बद्धमुक्तसुखितदुःखितादिनियतव्यवहाराभावप्रसङ्ग इति, स्वमतमाविष्कुर्वन्नाह- अह मित्यादि अहं ति अहमेव नान्यतीर्थिकाः पुनःशब्दो विशेष // 243 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy