SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 242 // एवं परूवेमि-किच्चं दुक्खं फुस्सं दुक्खं कज्जमाणकडं दुक्खं कुटु 2 पाणा भूया जीवा सत्ता वेयणं वेयंतित्ति वत्तव्वं सिया॥सूत्रम् तृतीयमध्ययनं 167 // तइयठाणस्स बीओ उद्देसओ समत्तो॥ त्रिस्थानम्, द्वितीयोद्देशकः - अन्नउत्थी त्यादि प्रायः स्पष्टम्, किन्तु अन्ययूथिका- अन्यतीर्थिका इह तापसा विभङ्गज्ञानवन्त एवं वक्ष्यमाणप्रकारमा सूत्रम् 167 ख्यान्ति सामान्यतो भाषन्ते विशेषतः क्रमेणैतदेव प्रज्ञापयन्ति प्ररूपयन्तीति पर्यायरूपपदद्वयेन उक्तमिति, अथवा आख्यान्ति अकृतदुःखा दिखण्डनम् ईषद् भाषन्ते व्यक्तवाचा प्रज्ञापयन्ति उपपत्तिभिर्बोधयन्ति प्ररूपयन्ति प्रभेदादिकथनत इति, किं तदित्याह- कथं केन प्रकारेण श्रमणानां निर्ग्रन्थानां मते इति शेषः, क्रियते इति क्रिया-कर्म सा क्रियते भवति दुःखायेति विवक्षयेति प्रश्न, इह तु चत्वारो भङ्गास्तद्यथा- कृता क्रियते-विहितं सत्कर्म दुःखाय भवतीत्यर्थः 1, एवं कृता न क्रियते 2 अकृता क्रियते 3 अकृतान क्रियते 4 इति, एतेष्वनेन प्रश्नेन यो भङ्गः प्रष्टुमिष्टस्तं शेषभङ्गनिराकरणपूर्वकमभिधातुमाह- तत्थ त्ति तेषु चतुर्यु भङ्गकेषु मध्ये प्रथमं द्वितीयं चतुर्थं च न पृच्छन्ति, एतत्त्रयस्यात्यन्तं रुचेरविषयतया तत्प्रश्नस्याप्यप्रवृत्तेरिति, तथाहि'याऽसौ कृता क्रियते' यत्तत्कर्म कृतं सद्भवति नो तत्ते पृच्छन्ति, पूर्वकालकृतत्वस्याप्रत्यक्षतया असत्त्वेन निर्ग्रन्थमतत्वेन चासंमतत्वादिति, 'तत्र याऽसौ कृता नो क्रियते' इति तेषु-भङ्गकेषु मध्ये यत्तत्कर्म कृतं न भवति नो तत्पृच्छन्ति, अत्यन्तविरोधेनासम्भवात्, तथाहि-कृतं चेत् कर्म कथं न भवतीत्युच्यते?, न भवति चेत् कथं कृतं तदिति, कृतस्य कर्मणोऽभवनाभावात्, तत्र तेषु याऽसावकृता यत्तदकृतं कर्म नो क्रियते न भवति नो तां पृच्छन्ति, अकृतस्यासतश्च कर्मणः खरविषाण-2 // 242 // कल्पत्वादिति, अमुमेव च भङ्गकत्रयनिषेधमाश्रित्यास्य सूत्रस्य त्रिस्थानकावतार इति सम्भाव्यते, तृतीयभङ्गकस्तु तत्संमत इति तं पृच्छन्ति, अत एवाह- तत्र 'याऽसावकृता क्रियते' यत्तदकृतं- पूर्वमविहितं कर्म भवति- दुःखाय सम्पद्यते तां
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy