________________ तृतीयमध्ययनं त्रिस्थानम्, द्वितीयोद्देशकः सूत्रम् 167 अकृतदुःखादिखण्डनम् भाग-१ // 241 // श्रीस्थानाङ्ग (दशवै०नि० 38) इति, ततश्च उवसंकमंति त्ति उपसङ्कामन्ति- उपसङ्गच्छन्ति तस्य समीपवर्त्तिनो भवन्ति, इह च तत्कालापेक्षया श्रीअभय० क्रियाया वर्तमानत्वमिति वर्त्तमाननिर्देशो न दुष्टः, उपसङ्कम्य वन्दन्ते स्तुत्या नमस्यन्ति प्रणामतः, एवं अनेन प्रकारेण वयासि वृत्तियुतम् त्ति छान्दसत्वात् बहुवचनार्थे एकवचनमिति अवादिषुः- उक्तवन्तो नोजानीमो विशेषतः नो पश्यामः सामान्यतो, वाशब्दौ विकल्पार्थों, तदिति तस्मादेतमर्थ-किंभयाः प्राणा इत्येवंलक्षणम्, नो गिलायंति त्ति नग्लायन्ति-न श्राम्यन्ति परिकथयितुं परिकथनेन तं ति ततो, दुक्खभय त्ति दुःखात्- मरणादिरूपाद् भयमेषामिति दुःखभयाः, से णं ति तद् दुःखं जीवेणं कडे त्ति दुःखकारणकर्मकरणाजीवेन कृतमित्युच्यते, कथमित्याह- पमाएणं ति प्रमादेनाज्ञानादिना बन्धहेतुना करणभूतेनेति, उक्तं च-पमाओ य मुणिंदेहि, भणिओ अट्ठभेयओ। अन्नाणं संसओ चेव, मिच्छाणाणं तहेव य॥१॥रागो दोसो मइन्भंसो, धम्ममि य अणायरो। जोगाणं दुप्पणीहाणं, अट्ठहा वज्जियव्वओ॥२॥इति / तच्च वेद्यते-क्षिप्यते अप्रमादेन, बन्धहेतुप्रतिपक्षभूतत्वादिति। अस्य च सूत्रस्य दुःखभया पाणा 1 जीवेणं कडे दुक्खे पमाएणं 2 अपमाएणं वेइज्जई 3 त्येवंरूपप्रश्नोत्तरत्रयोपेतत्वात् त्रिस्थानकावतारो द्रष्टव्य इति / जीवेन कृतं दुःखमित्युक्तमधुना परमतं निरस्यैतदेव समर्थयन्नाह अन्नउत्थिताणं भंते! एवं आतिक्खंति एवं भासंति एवं पन्नवेंति एवं परूवंति कहन्नं समणाणं निग्गंथाणं किरिया कजति?, तत्थ जा सा कडा कजइनो तंपुच्छंति, तत्थ जा सा कडा नो कजति, नो तंपुच्छंति, तत्थ जा सा अकडा नो कजति नोतं पुच्छंति, तत्थ जासा अकडा कजति तं पुच्छंति, से एवं वत्तव्वं सिता?- अकिच्चंदुक्खं अफुसंदुक्खं अकजमाणकडं दुक्खं अकटु अकडपाणा भूया जीवा सत्ता वेयणं वेदेतित्ति वत्तव्वं, जे ते एवमाहंसुमिच्छा ते एवमाहंसु, अहं पुण एवमाइक्खामि एवं भासामि एवं पन्नवेमि 0प्रमादश्च मुनीन्द्रर्भणितोऽष्टभेदः / अज्ञानं संशयश्चैव, मिथ्याज्ञानं तथैव च ॥१॥रागो द्वेषो मतिभ्रंशो धर्मे चानादरः / योगानां दुष्प्रणिधानमष्टधा वर्जयितव्यः॥२॥ // 241 //