SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 238 // 1 // संमुच्छिम 15 कम्मा 16 कम्मभूमगनरा 17 तहतरद्दीवा 18 // भावदिसा दिस्सइ जं संसारी निययमेयाहिं // 2 // (विशेषाव० तृतीयमध्ययन त्रिस्थानम्, 2703-04) इति, इह च क्षेत्रतापप्रज्ञापकदिग्भिरेवाधिकारः, तत्र च तिर्यग्ग्रहणेन पूर्वाद्याश्चतस्र एव दिशो गृह्यन्ते, विदिक्षु द्वितीयोद्देशकः जीवानामनुश्रेणिगामितया वक्ष्यमाणगत्यागतिव्युत्क्रान्तीनामयुज्यमानत्वात्, शेषपदेषु च विदिशामविवक्षितत्वाद्, यतोऽत्रैव सूत्रम् 163 वक्ष्यति-छहिं दिसाहिं जीवाणं गई पवत्तई (सू०४९९)त्यादि, तथा ग्रन्थान्तरेऽप्याहारमाश्रित्योक्तं- निव्वाघाएण नियमा छद्दिसिंति आकाश प्रतिष्ठितादि, (प्रज्ञा० २८/१८०९)तत्र 'तिहिं दिसाहिति सप्तमी तृतीया पञ्चमी वा यथायोगं व्याख्येयेति, गतिः-प्रज्ञापकस्थानापेक्षया ऊर्ध्वादिदिक्षु मृत्वाऽन्यत्र गमनम्, ‘एवं' मिति पूर्वोक्ताभिलापसूचनार्थः, आगतिः- प्रज्ञापकप्रत्यासन्नस्थाने आगमनमिति, व्युत्क्रान्तिः- गत्यादयः१४, (दिक्स्वरूपम्) उत्पत्तिः, आहारः प्रतीतः, वृद्धिः- शरीरस्य वर्द्धनम्, निवृद्धिः- शरीरस्यैव हानिः, गतिपर्यायश्चलनं जीवत एव, समुद्धातोवेदनादिलक्षणः, कालसंयोगो- वर्तनादिकाललक्षणानुभूतिर्मरणयोगोवा, दर्शनेन- अवध्यादिना प्रत्यक्षप्रमाणभूतेनाभिगमो- बोधो दर्शनाभिगमः, एवं ज्ञानाभिगमः, जीवानां ज्ञेयानामवध्यादिनैवाभिगमो जीवाभिगम इति / 'तिहिं दिसाहिं जीवाणं अजीवाभिगमे पन्नत्ते, तं०- उड्डाए 3' एवं सर्वत्राभिलपनीयमिति दर्शनार्थं परिपूर्णान्त्यसूत्राभिधानमिति / एतान्यजीवाभिगमान्तानि सामान्यजीवसूत्राणि चतुर्विंशतिदण्डकचिन्तायां तु नारकादिपदेषु दिक्त्रये गत्यादीनां त्रयोदशानामपि पदानां सामस्त्येनासम्भवात् पञ्चेन्द्रियतिर्यक्षु मनुष्येषु च तत्सम्भवात् तदतिदेशमाह- एव मित्यादि, यथा सामान्यसूत्रेषु गत्यादीनि त्रयोदश पदानि दिक्त्रये अभिहितान्येवं पञ्चेन्द्रियतिर्यमनुष्येष्विति भावः, एवं चैतानि षड्विंशतिः सूत्राणि भवन्तीति / अथैषां नारकादिषु कथमसम्भव इति?, उच्यते, नारकादीनांद्वाविंशतेर्जीवविशेषाणां नारकदेवेषूत्पादाभावा-2 संमूर्छिमकर्माकर्मभूमिगनरास्तथान्तरद्वीपगा भावदिशो व्यपदिश्यते यत्संसारी नियतमेताभिः // 1 // // 238 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy