SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ भाग-१ // 235 // श्रीस्थानाङ्गएतदव एतदेव दर्शयन्नाह- सद्द मित्यादि, भावितार्थम्, एवं रूवाई गंधाई इत्यादि, यथा शब्दे विधिनिषेधाभ्यां त्रयस्त्रय आलापका श्रीअभय० भणिता एवं रूवाई पासित्ते त्यादयः त्रयस्त्रय एव दर्शनीया एवञ्च यद्भवति तदाह- एक्के इत्यादि, एकैकस्मिन् विषये षडालापका वृत्तियुतम् भणितव्या भवन्तीति, तत्र शब्दे दर्शिता एव, रूपादिषु पुनरेवं- रूपाणि दृष्ट्वा सुमना दुर्मना अनुभयं 1 एवं पश्यामीति 2 एवं द्रक्ष्यामीति 3 एवं अदृष्टा 4 न पश्यामीति 5 न द्रक्ष्यामीति 6 षट्, एवं गन्धान् घ्रात्वा 6 रसानास्वाद्य 6 स्पर्शान् स्पृष्ट्रेति 6 / तहेव ठाणा य त्ति यत्सङ्ग्रहगाथायामुक्तं तद् भावयन्नाह- तओ ठाणा इत्यादि, त्रीणि स्थानानि निःशीलस्य- सामान्येन शुभस्वभाववर्जितस्य विशेषतः पुनर्निव्रतस्य-प्राणातिपाताद्यनिवृत्तस्य निर्गुणस्योत्तरगुणापेक्षया निर्मर्यादस्य लोककुलाद्यपेक्षया निष्प्रत्याख्यानपौषधोपवासस्य-पौरुष्यादिनियमपर्वोपवासरहितस्य गर्हितानि-जुगुप्सितानि भवन्ति, तद्यथा- अस्सिं ति विभक्तिपरिणामादयं लोक- इदं जन्म गर्हितो भवति, पापप्रवृत्त्या विद्वज्जनजुगुप्सितत्वात्, तथा उपपातोऽकामनिर्जरादिजनितः किल्बिषिकादिदेवभवो नारकभवो वा, उपपातो देवनारकाणा'मिति नारकदेवानामुपपातः। (तत्त्वा० अ०२ सू० 35 ) वचनात्, स गर्हितो भवति किल्बिषिकाभियोग्यादिरूपतयेति, आजाति:-तस्माच्च्युतस्योद्वृत्तस्य वा कुमानुषत्वतिर्यक्त्वरूपा गर्हिता, कुमानुषादित्वादेवेति / उक्तविपर्ययमाह-'तओ' इत्यादि, निगदसिद्धम् // एतानि च गर्हितप्रशस्तस्थानानि संसारिणामेव भवन्तीति संसारिजीवनिरूपणायाह तिविधा संसारसमावन्नगा जीवा पं० तं०- इत्थी पुरिसा नपुंसगा, तिविहा सव्वजीवा पं० तं०-सम्मट्ठिी मिच्छादिट्ठी सम्मामिच्छदिट्ठीय, अहवा तिविहा सव्वजीवापं० तं०- पज्जत्तगा अपज्जत्तगाणोपज्जत्तगाणोऽपज्जत्तगा। एवं-सम्मद्दिट्ठीपरित्तापज्जत्तग सुहुमसन्निभविया य॥ सूत्रम् 162 // तृतीयमध्ययनं | त्रिस्थानम्, द्वितीयोद्देशकः सूत्रम् 162 स्त्यादिसम्यग्दृष्ट्यादिपर्याप्तकादिसूक्ष्मसंज्ञिभव्यादीनां त्रैविध्यम् सूत्रम् 163 आकाशप्रतिष्ठितादि, ऊर्ध्वादिदिक्षु गत्यादयः१४, (दिक्स्वरूपम्) // 235 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy