SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 226 // // तृतीयाध्ययने द्वितीयोद्देशकः॥ तृतीयमध्ययन व्याख्यातः प्रथम उद्देशकः, तदनन्तरं द्वितीय आरभ्यते, अस्य चायमभिसम्बन्धः, प्रथमोद्देशके जीवधर्माः प्राय उक्ता, त्रिस्थानम्, द्वितीयोद्देशकः इहापिप्रायस्त एवेतीत्थंसम्बन्धस्यास्येदमादिसूत्रम् सूत्रम् 153 तिविहे लोगे पं० तं०-णामलोगे ठवणलोगे दव्वलोगे, तिविधे लोगे पं० तं०- णाणलोगे दंसणलोगे चरित्तलोगे, तिविहे लोगे नामज्ञानोपं०२०- उद्धलोगे अहोलोगे तिरियलोगे।सूत्रम् 153 // र्वादिलोकाः (लोकतिविहेत्यादि।अस्य चायमभिसम्बन्धः-अनन्तरसूत्रेण चन्द्रप्रज्ञप्त्यादिग्रन्थस्वरूपमुक्तमिह तु चन्द्रादीनामेवार्थानामाधार- स्वरूपम्) भूतस्य लोकस्य स्वरूपमभिधीयत इत्येवंसम्बन्धवतोऽस्य सूत्रस्य व्याख्या-लोक्यते-अवलोक्यते केवलावलोकेनेति लोको, नामस्थापने इन्द्रसूत्रवत्, द्रव्यलोकोऽपि तथैव, नवरंज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्यलोको धर्मास्तिकायादीनि जीवाजीवरूपाणि रूप्यरूपीणि सप्रदेशाप्रदेशानि द्रव्याण्येव, द्रव्याणि च तानि लोकश्चेति विग्रहः, उक्तं च-जीवमजीवे रूवमरूवी सपएसअप्पएसे य। जाणाहि दव्वलोयं णिच्चमणिच्चं च जं दव्वं॥१॥ (आव०भा० 195) इति, भावलोकं त्रिधाऽऽह- तिविहे इत्यादि, भावलोको द्विविध:- आगमतो नोआगमतश्च, तत्रागमतो लोकपर्यालोचनोपयोगस्तदुपयोगानन्यत्वात् पुरुषोवा, नोआगमतस्तुसूत्रोक्तो ज्ञानादिः, नोशब्दस्य मिश्रवचनत्वाद्, इदं हि त्रयं प्रत्येकमितरेतरसव्यपेक्षनागम एव केवलो नाप्यनागम इति, तत्र ज्ञानं चासौ लोकश्चेति ज्ञानलोकः भावलोकता चास्य क्षायिकक्षायोपशमिकभावरूपत्वात्, क्षायिकादिभावानां ®च भावलोकत्वेनाभिहितत्वाद्, उक्तं च- ओदइय उवसमिए य खइए य तहा खओवसमिए य / परिणाम सन्निवाए य छव्विहो / 0जीवा अजीवा रूपिणोऽरूपिणः सप्रदेशा अप्रदेशाश्व / जानीहि द्रव्यलोकं नित्यमनित्यं च यद्रव्यम् // 1 // 7 औदयिक औपशमिकः क्षायिकः क्षायोपशमिकश्च / तथा परिणामः सन्निपातश्च षड्विधो - // 226 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy