SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 225 // कालं मरणमिति, णेरइयत्ताए त्ति पृथिव्यादित्वव्यवच्छेदार्थम्, तत्र ोकेन्द्रियतया तदन्येऽप्युत्पद्यन्त इति, तत्र राजान:चक्रवर्तिवासुदेवाः माण्डलिकाः- शेषा राजानः, ये च महारम्भाः- पञ्चेन्द्रियादिव्यपरोपणप्रधानकर्मकारिणः कुटुम्बिन इति, शेषं कण्ठ्यम् // अप्रतिष्ठानस्य स्थित्यादिभिः समाने सर्वार्थे ये उत्पद्यन्ते तानाह- तओ इत्यादि सुगमम्, केवलं राजानः- प्रतीताः परित्यक्तकामभोगाः- सर्वविरताः, एतच्चोत्तरपदयोरपि सम्बन्धनीयम्, सेनापतयः- सैन्यनायकाः। प्रशास्तारो-लेखाचार्यादयः, धर्मशास्त्रपाठका इति क्वचित् // अनन्तरोक्तसर्वार्थसिद्धविमानसाधाद्विमानान्तरनिरूपणायाह-बंभे त्यादि, इह च किण्हा नीला लोहिय त्ति, पुस्तकेष्वेवं त्रैविध्यं दृश्यते, स्थानान्तरे च लोहितपीतशुक्लत्वेनेति, यत उक्तं-सोहम्मे पंचवन्ना एक्कगहाणी य जा सहस्सारो। दो दो तुल्ला कप्पा तेण परं पुंडरीयाई॥१॥ (बृहत्सं० 132) इति, अनन्तरं विमानान्युक्तानि तानिच देवशरीराश्रया इति देवशरीरमानं त्रिस्थानकानुपात्याह-आणये त्यादि, भवं-जन्मापि यावद्धार्यन्ते भवंवा-देवगतिलक्षणं धारयन्तीति भवधारणीयानि तानिचतानि शरीराणि चेति भवधारणीयशरीराणीति, उत्तरवैक्रियव्यवच्छेदार्थं चेदं, तस्य लक्षप्रमाणत्वात्, उक्कोसेणं ति उत्कर्षेण, न तुजघन्यत्वादिना, जघन्येन तस्योत्पत्तिसमयेऽङ्गलासङ्खयेयभागमात्रत्वादिति, शेषं कण्ठ्यमिति / अनन्तरं देवशरीराश्रयवक्तव्यतोक्ता तत्प्रतिबद्धाश्च प्रायस्त्रयो ग्रन्था इति तत्स्वरूपाभिधानायाह- तओ इत्यादि, कालेन-प्रथमपश्चिमपौरुषीलक्षणेन हेतुभूतेनाधीयन्ते, व्याख्याप्रज्ञप्तिर्जम्बूद्वीपप्रज्ञप्तिश्चन विवक्षिता, त्रिस्थानकानुरोधादिति, शेषं स्पष्टम् // इति त्रिस्थानकस्य प्रथम उद्देशको विवरणतः समाप्तः। तृतीयमध्ययनं त्रिस्थानम्, प्रथमोद्देशकः सूत्रम् 150-152 नि:शीलराजादीनां नरकगमनम्, त्यागिनां देवत्वम्, विमानवाः, आनतादितनूच्चत्वम्, कालिक प्रज्ञप्तयः // 225 // 6 सौधर्मे पञ्चवर्णानि एकैकहानिश्च यावत्सहस्रारः। द्वौ द्वौ कल्पौ तुल्यौ ततः परं पुण्डरीकाणि // 1 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy