SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 212 // दुष्प्रति करत्वम् शेखरस्तस्य करणमवतंसिका पृष्ठ्यवतंसिका तया पृष्ठ्यवतंसिक्या परिवहेत्, पृष्ठ्यारोपितमित्यर्थः, तेनापि परिवाहकेन ततीयमध्ययन त्रिस्थानम्, परिवहनेन वा तस्य- अम्बापितुर्दुष्प्रतीकरम्, अशक्यः प्रतीकार इत्यर्थः, अनुभूतोपकारतया तस्य प्रत्युपकारकारित्वाद्, प्रथमोद्देशकः आह च- कयउवयारो जो होइ सज्जणो होइ को गुणो तस्स? / उवयारबाहिरा जे हवंति ते सुंदरा सुयणा // 1 // इति, अहे णं से त्ति अथ सूत्रम् 135 चेत्, णमित्यलङ्कारे स पुरुषस्तं- अम्बापितरं धर्मे स्थापयिता स्थापनशीलो भवति, अनुष्ठानतः स्थापयतीत्यर्थः, किं. मातापितृकृत्वेत्याह- आघवइत्ता धर्ममाख्याय प्रज्ञाप्य बोधयित्वा प्ररूप्य प्रभेदत इति, अथवा आख्याय सामान्यतो यथा कार्यों धर्माचार्यधर्मः, प्रज्ञाप्य विशेषतो यथाऽसावहिंसादिलक्षणः, प्ररूप्य प्रभेदतो यथा (अष्टादश) शीलाङ्गसहस्ररूप इति, शीलार्थतृन्नन्तानि वैतानीति, तेणामेव त्ति ततस्तेनैव धर्मस्थापनेनैव न परिवहनेन अथवा तेनैव धर्मस्थापकपुरुषेण न परिवाहिना तस्य प्रत्युपकरणीयस्याम्बापितुः सुपडियरं ति सुखेन प्रतिक्रियते- प्रत्युपक्रियत इति सुप्रतिकरम्, भावसाधनोऽयं तद्भवतिप्रत्युपकारः कृतो भवतीत्यर्थो, धर्मस्थापनस्य महोपकारत्वाद्, आह च- संमत्तदायगाणं दुप्पडियारं भवेसु बहुएसुं। सव्वगुणमेलियाहिवि उपगारसहस्सकोडीहिं॥१॥ (उप०माला 269) इति 1 / अथ भर्तुर्दुष्प्रतिकार्यतामाह- केइ महच्चे त्ति कश्चित्कोऽपि महती ऐश्वर्यलक्षणाऽर्चा- ज्वाला पूजा वा यस्य अथवा महांश्चासावर्थपतितया अWश्च- पूज्य इति महा? महार्यो वा माहत्यं-महत्त्वं तद्योगान्माहत्यो वा, ईश्वर इत्यर्थः, दरिद्रं-अनीश्वरंकञ्चन पुरुषमतिदुःस्थं समुत्कर्षयेत्' धनदानादिनोत्कृष्टं कुर्यात्, ततः समुत्कर्षणानन्तरंस दरिद्रः समुत्कृष्टो धनादिभिः समाणे त्ति सन् पच्छ त्ति पश्चात्काले पुरं च णं ति पूर्वकाले // 21 // Oकृतोपकारो यो भवति सज्जनो भवति को गुणस्तस्य? / उपकारबाह्या ये भवन्ति ते सुन्दराः सज्जनाः॥१॥ O सम्यक्त्वदायकानां दुष्प्रतिकारं भवेषु बहुष्वपि / सर्वगुणमीलिताभिरपि उपकारसहस्रकोटीभिः॥१॥
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy