________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 211 // तृतीयमध्ययनं | त्रिस्थानम्, प्रथमोद्देशकः सूत्रम् 135 मातापितृभर्तृधर्माचार्यदुष्प्रतिकरत्वम् सह पच्यते यत् 2 शतकृत्वो वा पाको यस्य 3 शतेन वा रूपकाणां मूल्यतः पच्यते 4 यत्तच्छतपाकम्, एवं सहस्रपाकमपि, ताभ्यां तैलाभ्याम्, अब्भंगेत्ता अभ्यङ्गं कृत्वा गन्धट्टएणं ति गन्धाट्टकेन-गन्धद्रव्यक्षोदेन उद्वर्त्य उद्वलनं कृत्वा त्रिभिरुदकैःगन्धोदकोष्णोदकशीतोदकैर्मज्जयित्वा स्ना(स्न)पयित्वा मनोज्ञं- कलमौदनादि स्थाली पिठरी तस्यां पाको यस्य तत्तथा, अन्यत्र हि पक्कमपक्वं वान तथाविधं स्यादितीदं विशेषणमिति शुद्धं भक्तदोषवर्जितं स्थालीपाकं च तच्छुद्धंच स्थालीपाकेन वाशुद्धमिति विग्रहः,अष्टादशभिर्लोकप्रतीतैर्व्यञ्जनैः-शालनकैस्तक्रादिभिर्वा आकुलं-सङ्कीर्णं यत्तत्तथा, अथवाऽष्टादशभेदं च तद् व्यञ्जनाकुलं चेति, अत्र भेदपदलोपेन समासः, भोजनं भोजयित्वा, एते चाष्टादश भेदाः-सूओ 1 दणो 2 जवनं 3 / तिन्नि य मंसाई 6 गोरसो 7 जूसो 8 / भक्खा 9 गुललावणिया 10 मूलफला 11 हरियगं 12 सागो 13 // 1 // होइ रसालू य तहा 14 पाणं 15 पाणीयं 16 पाणगं चेव 17 / अट्ठारसमो सागो 18 निरुवहओ लोइओ पिंडो॥२॥मांसत्रयं जलजादिसत्कं जूषो- मुद्गतन्दुलजीरककटुभाण्डादिरसः, भक्ष्याणि-खण्डखाद्यादीनि गुललावणिका-गुडपर्पटिका लोकप्रसिद्धा गुडधाना वा मूलफलान्येक एव पदम्, हरितकं- जीरकादि शाको- वस्तुलादिभर्जिका, रसालू- मज्जिका, तल्लक्षणमिदं-दो घयपला महुपलं दहिस्स अद्धाढयं मिरिय वीसा / दस खण्डगुलपलाई एस रसालू णिवइजोग्गो॥१॥त्ति, पानं- सुरादि, पानीयं- जलम्, पानकंद्राक्षापानकादि, शाकः- तक्रसिद्ध इति, यावान् जीवो यावज्जीवं- यावत्प्राणधारणं पृष्ठे- स्कन्धे अवतंस इवावतंस: O सूप ओदनो यवान्नं त्रीणि च मांसानि गोरसो मुद्रादिरसो॥ भक्ष्याणि गुलपर्पटिका मूलफलानि जीरकादि वत्थुलादिः॥ 1 // भवति मज्जिका च तथा सुरादि कर्कटिजलं सौवीरादि चैव // अष्टादशः शाको निरुपहतो लौकिकः पिण्डः // 1 // द्वे घृतपले मधुपलं दध्नोऽर्धाढकं मरीचा विंशतिः। दश गुडखण्डयोः पलानि एष रसालु पतियोग्यः॥१॥ P // 211 //