________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ तृतीयमध्ययन | त्रिस्थानम्, प्रथमोद्देशकः सूत्रम् 132 लेश्यात्रयवन्तो जीवा: (24 आ०) // 205 // स्त्र्यादिपरिणतिश्च जीवानां लेश्यावशतो भवति तन्निबन्धनकर्मकारणत्वात् तासामिति नारकादिपदेषु लेश्यास्त्रिस्थानकावतारेण निरूपयन्नाह नेरइयाणं तओलेसाओ पं० तं०- कण्हलेसा नीललेसा काउलेसा 1, असुरकुमाराणं तओ लेसाओ संकिलिट्ठाओ पं०, तं०कण्हलेसा नीललेसा काउलेसा 2, एवं जाव थणियकुमाराणं 11, एवं पुढविकाइयाणं 12, आउवणस्सतिकाइयाणवि 13-14 तेउकाइयाणं 15 वाउकाइयाणं 16 बेंदियाणं 17 तेंदियाणं 18 चउरिदिआणवि १९तओलेस्सा जहा नेरइयाणं, पंचिंदियतिरिक्खजोणियाणं तओलेसाओसंकिलिट्ठाओ पं० तं०- कण्हलेसा नीललेसा काउलेसा 20, पंचिंदियतिरिक्खजोणियाणं तओलेसाओ असंकिलिट्ठाओपं० तं०- तेउलेसा पम्हलेसासुक्कलेसा 21, एवं मणुस्साणवि 22, वाणमंतराणंजहा असुरकुमाराणं 23, वेमाणियाणं तओलेस्साओ पं० तं०- तेउलेसा पम्हलेसा सुक्कलेसा 24 // सूत्रम् 132 // नेरइयाण मित्यादिदण्डकसूत्रं कण्ठ्यम्, नवरं नेरइयाणं तओ लेस्साओ त्ति एतासामेव तिसृणां सद्भावादविशेषणो निर्देशः, असुरकुमाराणांतु चतसृणां भावात् सङ्क्लिष्टा इति विशेषितं, चतुर्थी हि तेषां तेजोलेश्याऽस्ति, किन्तु सा न संक्लिष्टेति, पृथिव्यादिष्वसुरकुमारसूत्रार्थमतिदिशन्नाह- एवं पुढवी त्यादि, पृथिव्यब्वनस्पतिषु देवोत्पादसम्भवाच्चतुर्थी तेजोलेश्याऽस्तीति सविशेषणो लेश्यानिर्देशोऽतिदिष्टः, तेजोवायुद्वित्रिचतुरिन्द्रियेषु तु देवानुत्पत्त्या तदभावान्निर्विशेषण इत्यत एवाह- तओ इत्यादि, पञ्चेन्द्रियतिरश्चां मनुष्याणां च षडपीति संक्लिष्टासंक्लिष्टविशेषणतश्चतुःसूत्री, नवरं मनुष्यसूत्रे अतिदेशेनोक्ते इति व्यन्तरसूत्रे संक्लिष्टावाच्याः, अत एवोक्तं-वाणमंतरे त्यादि, वैमानिकसूत्रं निर्विशेषणमेव, असंक्लिष्टस्यैव त्रयस्य सद्भावात्, व्यवच्छेद्याभावेन विशेषणायोगादिति / ज्योतिष्कसूत्रं नोक्तम्, तेषां तेजोलेश्याया एव भावेन त्रिस्थानकानवतारादिति॥ 205 //