________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 194 // दीर्घायुष्व स्तद्भावस्तत्ता तस्यै अल्पायुष्टायै तदर्थं तन्निबन्धनमित्यर्थः, कर्म- आयुष्कादि, अथवा अल्पमायुर्जीवितं यत आयुषस्तद-2 तृतीयमध्ययन ल्पायुस्तद्भावस्तत्ता तया कर्म-आयुर्लक्षणं प्रकुर्वन्ति बध्नन्तीत्यर्थः, तद्यथा-प्राणान् प्राणिनोऽऽतिपातयितेति 'शीलार्थतन्नन्त' त्रिस्थानम्, प्रथमोद्देशकः मिति कर्मणि द्वितीयेति, प्राणिनां विनाशनशील इत्यर्थः, एवंभूतो यो भवति, एवं मृषावादं वक्ता यश्च भवति, तथा सूत्रम् 125 तत्प्रकारं रूपं-स्वभावो नेपथ्यादिवा यस्य स तथारूपो दानोचित इत्यर्थस्तम्, श्राम्यति-तपस्यतीति श्रमण:- तपोयुक्तस्तम् अल्पदीर्घा शुभशुभमा हन इत्याचष्टे यः परं प्रति स्वयं हनननिवृत्तः सन्निति स माहनो- मूलगुणधरस्तम्, वाशब्दौ समुच्चयार्थी, प्रगता असव:असुमन्तः प्राणिनो यस्मात् तत्प्रासुकं तन्निषेधादप्रासुकं सचेतनमित्यर्थस्तेन, एष्यते- गवेष्यते उद्गमादिदोषविकलतया कारणानि, (संविग्नसाधुभिर्यत्तदेषणीयं- कल्प्यं तनिषेधादनेषणीयं तेन, अश्यते- भुज्यते इत्यशनं च- ओदनादि, पीयत इति पानं च लुब्धकसौवीरकादि खादनं खादस्तेन निर्वृत्तं खादनार्थं तस्य निर्वर्त्यमानत्वादिति खादिमंच- भक्तौषकादि स्वादनं स्वादस्तेन निर्वृत्तं स्वादिमंवदन्तपवनादीति समाहारद्वन्द्वस्तेन, गाथाश्चात्र-असणं ओदणसत्तुगमुग्गजगाराइ खज्जगविही य। खीराइ सूरणादी मंडगपभिती य विनेयं // 1 // पाणं सोवीरजवोदगाइ चित्तं सुराइयं चेव। आउक्काओ सव्वो कक्कडगजलाइयं च तहा॥२॥ भत्तोस दंताईखजूरं नालिकेरदक्खाई। कक्कडिगंबगफणसादि बहुविहंखाइमं नेयं // 3 // दंतवणं तंबोलं चित्तं अज्जगकुहेडगाई य। महुपिप्पलिसुंठादी अणेगहा साइमं होइ॥ 4 // (पञ्चा० 5/27-30) इति, प्रतिलम्भयिता- लाभवन्तं करोतीत्येवंशीलो यश्च भवति, ते अल्पायुष्कतया कर्म कुर्वन्तीति प्रक्रमः, इच्चेएहिं ति इत्येतैः प्राणातिपातादिभिरुक्तप्रकारैस्त्रिभिः स्थानैः जीवा अल्पायुष्टया // 194 // कर्म प्रकुर्वन्तीति निगमनमिति / इह च प्राणातिपातयित्रादिपुरुषनिर्देशेऽपि प्राणातिपातादीनामेवाल्पायुर्बन्धनिबन्धनत्वेन भक्तौषधादि (प्र०)। दृष्टान्तौ)