________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 192 // चतुर्विंशतौ पदेषु तमतिदिशन्नाह- एव मित्यादि, कण्ठ्यम्, नवरमतिप्रसङ्गपरिहारायेदमुक्तं-विगलिंदियवज्जाणं ति तत्र तृतीयमध्ययनं विकलेन्द्रिया- अपञ्चेन्द्रियाः, तेषां ह्येकेन्द्रियाणां काययोग एव, द्वित्रिचतुरिन्द्रियाणां तु काययोगवाग्योगाविति // मनः त्रिस्थानम्, प्रथमोद्देशकः प्रभृतिसम्बन्धेनैवेदमाह-तिविहे पओगे इत्यादि, कण्ठ्यम्, नवरं मनःप्रभृतीनां व्याप्रियमाणानां जीवेन हेतुकर्तृभूतेन यद् सूत्रम् 124 व्यापारणं-प्रयोजनंस प्रयोग: मनसःप्रयोगो मनःप्रयोगः, एवमितरावपि, जहे त्याद्यतिदेशसूत्रं पूर्ववद्भावनीयमिति / मन:- योग प्रयोगकरणप्रभृतिसम्बन्धेनैवेदमाह- तिविहे करणे इत्यादि कण्ठ्यम्, नवरं क्रियते येन तत्करणं- मननादिक्रियासु प्रवर्त्तमानस्यात्मन त्रैविध्यउपकरणभूतस्तथा तथापरिणामवत्पुद्गलसङ्घात इति भावः, तत्र मन एव करणंमनःकरणमेवमितरे अपि, एव मित्याद्यतिदेशसूत्रं मारम्भसंरम्भ समारम्भाश्च पूर्ववदेव भावनीयमिति, अथवा योगप्रयोगकरणशब्दानां मनःप्रभृतिकमभिधेयतया योगप्रयोगकरणसूत्रेष्वभिहितमिति नार्थभेदोऽन्वेषणीयः, त्रयाणामप्येषामेकार्थतया आगमे बहुशः प्रवृत्तिदर्शनात्, तथाहि- योगः पञ्चदशविधः शतकादिषु / व्याख्यातः, प्रज्ञापनायां त्वेवमेवायं प्रयोगशब्देनोक्तः, तथाहि-कतिविहे णं भंते! पओगे पन्नत्ते, गोतमा! पन्नरसविहे (प्रज्ञा 15/1068) इत्यादि, तथा आवश्यकेऽयमेव करणतयोक्तः, तथाहि-जुजणकरणं तिविहं मणवतिकाए य मणसि सच्चाइ / सट्ठाणे तेसि भेओ चउ चउहा सत्तहा चेव // 1 // (आव०नि० 1038) इति // प्रकारान्तरेण करणत्रैविध्यमाह- तिविहे इत्यादि, आरम्भणमारम्भः- पृथिव्याधुपमईनं तस्य कृतिः- करणं स एव वा करणमित्यारम्भकरणमेवमितरे अपि वाच्ये, नवरमयं विशेष:- संरम्भकरणं पृथिव्यादिविषयमेव मनःसंक्लेशकरणम्, समारम्भकरणं- तेषामेव सन्तापकरणमिति, आह च- हारक मिश्राः कार्मण इति // 1 // युञ्जनकरणं त्रिविधं मनोवाक्कायेषु मनसि सत्यादि / स्वस्थाने तेषां भेदः चतुर्धा चतुर्द्धा सप्तधा चैव // 1 // // 192 //