________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 189 // देवे णो अन्ने देवा णो अण्णेसिं देवाणं देवीओ अभिमुंजिय 2 परितारेति णो अप्पणिज्जिताओ देवीओ अभिमुंजिय 2 परितारेति तृतीयमध्ययन अप्पाणमेव अप्पणा विउव्विय 2 परितारेति 3 // सूत्रम् 122 / / त्रिस्थानम्, प्रथमोद्देशकः तिविहे मेहुणे पं० तं०- दिव्वे माणुस्सते तिरिक्खजोणीते, तओ मेहुणं गच्छंति तं०- देवा मणुस्सा तिरिक्खजोणिता, ततो मेहुणं सूत्रम् सेवंति तं०- इत्थी पुरिसा णपुंसगा।सूत्रम् 123 / / 122-123 देवपरिचारतिविहा परी त्यादि, कण्ठ्यम्, नवरं परिचारणा- देवमैथुनसेवेति, एकः कश्चिद्देवो न सर्वोऽप्येवमिति, किं?- अण्णे देवे त्ति णाया मैथुनअन्यान् देवान्- अल्पर्धिकान् तथाऽन्येषां देवानां सत्का देवीश्चाभियुज्याभियुज्य- आश्लिष्याश्लिष्य वशीकृत्य वा परिचारयति- तत्कारकस्य च त्रैविध्यम् परिभुङ्क्ते वेदबाधोपशमायेति, न च न सम्भवति देवस्य देवसेवा पुंस्त्वेनेत्याशङ्कनीयम्, मनुष्येष्वपि तथा श्रवणात्, न चात्रार्थे नरामरयोः प्रायो विशेषोऽस्तीति, एक एवायं प्रकारो देवदेवीनामन्यत्वसामान्यादत एव द्वयोरपि पदयोरेकः / क्रियाभिसम्बन्ध इति, एवमात्मीया देवीः परिचारयतीति द्वितीयः, तथाऽऽत्मानमेव परिचारयति, कथं?- आत्मना विकृत्य विकृत्य परिचारणायोग्य विधायेति तृतीयः, एवं प्रकारत्रयरूपाप्येकेयं परिचारणा, प्रभविष्णूत्कटकामैकपरिचारकवशादिति, अथान्यो देव आद्यप्रकारपरिहारेणान्त्यप्रकारद्वयेन परिचारयतीति द्वितीयेयमप्रभविष्णूचितकामपरिचारकदेवविशेषात्, तथाऽन्यो देव आद्यप्रकारद्वयवर्जनेनान्त्यप्रकारेण परिचारयतीति तृतीयाऽनुत्कटकामाल्पर्द्धिकदेवविशेषस्वामिकत्वादिति // परिचारणेति मैथुनविशेष उक्तोऽधुना तदेव मैथुनं सामान्यतः प्ररूपयन्नाह- तिविहे मेहुणे इत्यादि कण्ठ्यम्, नवरं मिथुनं // 189 // स्त्रीपुंसयुग्मं तत्कर्म मैथुनम्, नारकाणां तन्न सम्भवति द्रव्यत इति चतुर्थं नास्त्येवेति नोक्तम् // मिथुनकर्मण एव कारकानाहतओ इत्यादि कण्ठ्यम्, तेषामेव भेदानाह- तओ मेहुण मित्यादि, कण्ठ्यं, नवरं स्त्र्यादिलक्षणमिदमाचक्षते विचक्षणाः