________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 185 // माणवकोऽग्निरेव, दहनपचनप्रकाशनाद्यर्थक्रियाप्रसाधकत्वाभावादिति चेद्, न, अभिप्रायापरिज्ञानात्, संवित् ज्ञानमवगमो तृतीयमध्ययन भाव इत्यनर्थान्तरम्, तत्र ‘अर्थाभिधानप्रत्ययास्तुल्यनामधेया' इति सर्ववादिनामविसंवादस्थानम्, यथा कोऽयं?, घटः, त्रिस्थानम्, प्रथमोद्देशकः किमयमाह?, घटशब्दम्, किमस्य ज्ञानं?, घट इति, अग्निरिति च यज्ज्ञानं तदव्यतिरिक्तो ज्ञाता तल्लक्षणो गृह्यते, अन्यथा / सूत्रम् 119 तज्ज्ञाने सत्यपि नोपलभेत, अतन्मयत्वात्, प्रदीपहस्तान्धवत् पुरुषान्तरवद्वा, न चानाकारं तत् पदार्थान्तरवद्विवक्षितपदार्था नामस्थापना द्रव्य-ज्ञानपरिच्छेदप्रसङ्गाद्, बन्धाद्यभावश्च ज्ञानाज्ञानसुखदुःखपरिणामान्यत्वाद्, आकाशवत्, न चानलः सर्व एव दहनाद्यर्थक्रिया दर्शनप्रसाधको, भस्मच्छन्नाग्निना व्यभिचारादिति कृतं प्रसङ्गेन, नोआगमतो भावेन्द्र इन्द्रनामगोत्रे कर्मणी वेदयन् परमैश्वर्य चारित्रभाजनम्, सर्वनिषेधवचनत्वान्नोशब्दस्य, यतस्तत्र नेन्द्रपदार्थज्ञानमिन्द्रव्यपदेशनिबन्धनतया विवक्षितमिन्दनक्रियाया एव देवेन्द्रादि नवकम् विवक्षितत्वात्, अथवा तथाविधज्ञानक्रियारूपो यः परिणामः स नागम एव केवलो न चानागम इत्यतो मिश्रवचनत्वाद् / नोशब्दस्य नोआगमत इत्याख्यायत इति / ननु नामस्थापनाद्रव्येष्विन्द्राभिधानं विवक्षितभावशून्यत्वाद् द्रव्यत्वं च समानं वर्त्तते, ततश्च क एषां विशेषः? आह च-अभिहाणं दव्वत्तं तदत्थसुन्नत्तणं च तुल्लाइं। को भाववज्जियाणं नामाईणं पइविसेसो?॥१॥ (विशेषाव०५२) इति, अत्रोच्यते, यथा हि स्थापनेन्द्रे खल्विन्द्राकारो लक्ष्यते तथा कर्तुः सद्भूतेन्द्राभिप्रायो भवति तथा द्रष्टुस्तदाकारदर्शनादिन्द्रप्रत्ययस्तथा प्रणतिकृतधियश्च फलार्थिनः स्तोतुं प्रवर्तन्ते फलंच प्राप्नुवन्ति केचिद्देवतानुग्रहाद्न तथा नामद्रव्येन्द्रयोरिति, तस्मात् स्थापनायास्तावदित्थं भेद इति, आह च- आगारोऽभिप्पाओ बुद्धी किरियाफलं च पाएणं। जह Oअभिधानं द्रव्यत्वं तदर्थशून्यत्वं च तुल्यानि / को भाववर्जितानां नामादीनां प्रतिविशेषः? // 1 // (येन भेदास्त्रयस्ते) 0 आकारोऽभिप्रायो बुद्धिः क्रियाफलं च यथा // 185 //