SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ | // 182 // // अथ तृतीयमध्ययनं त्रिस्थानाख्यम् // तृतीयमध्ययनं ॥तृतीयाध्ययने प्रथमोद्देशकः॥ त्रिस्थानम्, प्रथमोद्देशकः द्विस्थानकानन्तरं त्रिस्थानकमेव भवति सङ्गयाक्रमप्रामाण्यादित्यनेन सम्बन्धेनायातस्य चतुरनुयोगद्वारस्य चतुरुद्देशकस्यास्य सूत्रम् 119 तत्रापि द्वितीयाध्ययनान्त्योद्देशके जीवादिपर्याया उक्ता अस्याप्यध्ययनस्य प्रथमोद्देशकेत एवाभिधीयन्त इत्येवंसम्बन्धस्यैतत्- नामस्थापना द्रव्य-ज्ञानप्रथमोद्देशकस्य तत्राप्यनन्तरोद्देशकान्त्यसूत्रे पुद्गलधर्मा उक्ता एतत्प्रथमसूत्रेतु जीवधर्मा उच्यन्त इत्येवंसम्बन्धस्यैतदादिसूत्रस्य दर्शन___तओ इंदा पण्णत्ता तं०- णामिंदे ठवणिंदे दव्विंदे, तओ इंदा पं० तं०- णाणिंदे दंसणिंदे चरितिंदे, तओ इंदा पं० तं०- देविंदे चारित्रअसुरिंदे मणुस्सिंदे।। सूत्रम् 119 // देवेन्द्रादि नवकम् तओ इंदे त्यादेाख्या, सा च सुकरैव, नवरमिन्दनाद्- ऐश्वर्याद इन्द्रः नाम-संज्ञा तदेव यथार्थमिन्द्रेत्यक्षरात्मकमिन्द्रो नामेन्द्रः, अथवा सचेतनस्याचेतनस्य वा यस्येन्द्र इत्ययथार्थं नाम क्रियते स नामनामवतोरभेदोपचारान्नाम चासाविन्द्रश्चेति नामेन्द्रः, अथवा नाम्नैवेन्द्र इन्द्रार्थशून्यत्वान्नामेन्द्र इति, नामलक्षणं पुनरिद-यद्वस्तुनोऽभिधानं स्थितमन्यार्थे तदर्थनिरपेक्षम्।। पर्यायानभिधेयञ्च नाम यादृच्छिकं च तथा॥१॥इति, अयमर्थ:- यद्वस्त्वित्यादिना यथार्थमिन्द्र इत्याधुक्तं 1, स्थितमित्यादिना त्वयथार्थं गोपालादाविन्द्रेत्यादि 2, यादृच्छिकमनर्थकं डित्थादीति 3, अथवा यदिन्दनाद्यर्थनिरपेक्षं गोपालादिवस्तुन इन्द्र इत्यादिकमभिधानं यथार्थतया शक्रादावन्यत्रार्थे स्थितं तन्नामेति, इन्द्रादिवस्तुनो वा अभिधानमिन्दनाद्यर्थनिरपेक्षं सद् // 182 // गोपालादावन्यत्रार्थे स्थितं नामेति / तथा इन्द्राद्यभिप्रायेण स्थाप्यत इति स्थापना-लेप्यादिकर्म सैवेन्द्रः स्थापनेन्द्रः, इन्द्रप्रतिमा साकारस्थापनेन्द्र अक्षादिन्यासस्त्वितर इति, स्थापनालक्षणमिदं- यत्तु तदर्थवियुक्तं तदभिप्रायेण यच्च तत्करणि / लेप्यादिकर्म
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy