________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 181 // द्विस्थानम्, चतुर्देिशकः सूत्रम् 113-118 भवनवास्या कल्पस्त्रियः, तेजोलेश्याः , कल्पे परिचारणा, त्रसस्थावर कुर्वन्तीत्याह- जीवा णमित्यादि सूत्राणि षट् सुगमानि, नवरं जीवा- जन्तवो, णं वाक्यालङ्कारे, द्वयोः स्थानयोः | द्वितीयमध्ययनं आश्रययोस्त्रसस्थावरकायलक्षणयोः समाहारो द्विस्थानम्, तत्र मिथ्यात्वादिभिर्ये निर्वर्तिताः- सामान्येनोपार्जिता वक्ष्यमाणावस्थाषट्कयोग्यीकृता द्वयोर्वा स्थानयोर्निर्वृत्तिर्येषां ते द्विस्थाननिर्वृत्तिकास्तान् पुद्गलान् कार्मणान् पापकर्म-घातिकर्म सर्वमेव वा ज्ञानावरणादि तद्भावस्तत्ता तया पापकर्मतया तद्रूपतयेत्यर्थः, चितवन्तो वा अतीतकाले चिन्वन्ति वा सम्प्रति दिस्थिति:, चेष्यन्ति वा अनागतकाले केचिदिति गम्यते, चयनं च कषायादिपरिणतस्य कर्मपुद्गलोपादानमात्रम्, उपचयनं तु चितस्याबाधाकालं मुक्त्वा ज्ञानावरणीयादितया निषेकः, स चैवं- प्रथमस्थितौ बहुतरं कर्मदलिकं निषिञ्चति ततो द्वितीयायां विशेषहीनमेवं जावुक्कोसियाए विसेसहीणं णिसिंचइइति, बन्धनंतु तस्यैव ज्ञानावरणादितया निषिक्तस्य पुनरपिकषायपरिणति-8 | कायनिर्वतिविशेषान्निकाचनमिति, उदीरणं त्वनुदयप्राप्तस्य करणेनाकृष्योदये क्षेपणमिति, वेदनं- अनुभवः, निर्जरा-कर्मणोऽकर्मता ताः पुद्गलभवनमिति / कर्म च पुद्गलात्मकमिति पुद्गलान् द्रव्यक्षेत्रकालभावैर्द्विस्थानकावतारेण निरूपयन्नाह- दुपएसी त्यादि सूत्राणि द्विप्रदेशिकात्रयोविंशतिः,सुगमा चेयम्, नवरं एवं यावत् करणात् दुसमयट्ठिइए त्यादि सूत्राण्येकविंशतिर्वाच्यानि, कालंपश्चद्विपञ्चाष्टभेदान् द्या द्विगुण रूक्षान्ताः वर्णगन्धरसस्पर्शाश्चाश्रित्येति, वाचना चैवं-दुसमयट्ठिईया पोग्गले त्यादि। द्विस्थानकस्य चतुर्थ उद्देशकः समाप्तः / तत्समाप्तौल पुद्रलाः, (निषेकादिच श्रीमदभयदेवसूरिविरचिते स्थानाख्यतृतीयाङ्गविवरणे द्वितीयमध्ययनं द्विस्थानकाभिधानं समाप्तमिति // ॥श्रीमदभयदेवसूरिवरविहितविवरणयुतं श्रीस्थानाङ्गाख्ये // 181 // तृतीयाले द्विस्थानाख्यं द्वितीयमध्ययनं समाप्तमिति // चयनाद्याः, लक्षणम्)