________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 180 // द्वितीयमध्ययन द्विस्थानम्, चतुर्थोद्देशकः सूत्रम् 113-118 भवनवास्या दिस्थितिः, दो देसूणुत्तरिल्लाणं॥१॥ (बृहत्सं०५) ति, उत्कर्षत एवैतत् जघन्यतस्तु दशवर्षसहस्राणीति, आह च-दस भवणवणयराणं वाससहस्सा ठिई जहन्नेणं। पलिओवममुक्कोसं वंतरियाणं वियाणिज्जा॥१॥ (बृहत्सं० 4) इति, शेषं सुगमम्, नवरं सौधर्मादिष्वियं स्थितिः-दो 1 साहि र सत्त 3 साही 4 दस 5 चोद्दस 6 सत्तरे व 7 अयराई। सोहम्मा जा सुक्को तदुवरि एक्केक्कमारोवे // 2 // (बृहत्सं० 12) इति, इयमुत्कृष्टा, जघन्या तु पलियं 1 अहियं 2 दो सार 3 साहिया 4 सत्त 5 दस य 6 चोद्दस य 7 / सत्तरस सहस्सारे 8 तदुवरि एक्केक्कमारोवे॥३॥ (बृहत्सं० 14) इति / देवलोकप्रस्तावात् स्त्र्यादिद्वारेण देवलोकद्विस्थानकावतारं सप्तसूत्र्याऽऽह- दोसु इत्यादि, कल्पयोः- देवलोकयोः स्त्रियः कल्पस्त्रियो- देव्यः, परतो न सन्ति, शेषं कण्ठ्यमिति 1, नवरं तेउलेस त्ति तेजोरूपा लेश्या येषां ते तेजोलेश्याः, ते च सौधर्मेशानयोरेव न परतः, तयोश्च तेजोलेश्या एव, नेतरे, आह च-किण्हा नीला काऊ तेऊलेसा य भवणवंतरिया। जोइस सोहम्मीसाण तेऊलेसा मुणेयव्वा॥१॥ (बृहत्सं० 193) इति, कायपरियारग त्ति परिचरन्तिसेवन्ते स्त्रियमिति परिचारकाः कायतः परिचारकाः कायपरिचारकाः, एवमुत्तरत्रापि, नवरं स्पर्शादिपरिचारकाः स्पर्शादेरेवोपशान्तवेदोपतापा भवन्तीत्यभिप्रायः, आनतादिषु चतुर्युकल्पेषुमनःपरिचारका देवा भवन्तीति वक्तव्ये द्विस्थानकानुरोधाद् दो इंदा' इत्युक्तम्, आनतादिषु हि द्वाविन्द्राविति, गाथाऽत्र-दो कायप्पवियारा कप्पा फरिसेण दोन्नि दो रूवे। सद्दे दो चउर मणे उवरिं परियारणा नत्थि॥१॥ (बृहत्सं० १८१)इयं च परिचारणा कर्मतः, कर्मच जीवाः स्वहेतुभिः कालत्रयेऽपि चिताद्यवस्थं - सार्धपल्यं देशोने द्वे उत्तराणाम् // 1 // भवनव्यन्तरयोर्दश वर्षसहस्राणि जघन्येन स्थितिः। पल्योपममुत्कृष्टं व्यन्तराणां विजानीयात् // 1 // 0 द्वे साधिके सप्त साधिकानि दश चतुर्दश सप्तदश सागरोपमाणि। सौधर्माद्यावच्छुक्रः तदुपर्येकैकमारोपयेत्॥१॥ 0 पल्यमधिकं वे साधिके सागरे सप्त दश च चतुर्दश च / सप्तदश सहस्रारे तदुपर्येकैकमारोपयेत् / / 1 // 0 कृष्णनीलकापोततेजोलेश्याश्च भवनव्यन्तराः / ज्योतिषसौधर्मेशानेषु तेजोलेश्या ज्ञातव्याः॥१॥ 7 द्वौ कायप्रविचारौ कल्पौ स्पर्शेन द्वौ द्वौ रूपेण / द्वौ शब्देन चत्वारो मनसोपरि परिचारणा नास्ति // 1 / / कल्पस्त्रियः, तेजोलेश्या:, कल्पे परिचारणा, त्रसस्थावरकायनिवर्तिता: पुद्रलचयनाद्या:, द्विप्रदेशिकाद्या द्विगणरूक्षान्ता: पुदलाः , (निषेकादिलक्षणम्) // 180 //