________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 178 // पदकोटी षट्पदाधिका, तस्य द्वे वस्तुनी, वस्तु च- तद्विभागविशेषोऽध्ययनादिवदिति / अनन्तरं षष्ठपूर्वस्वरूपमुक्तमधुना पूर्वशब्दसाम्यात् पूर्वभद्रपदानक्षत्रस्वरूपमाह-पुव्वे त्यादि कण्ठ्यम् / नक्षत्रप्रस्तावान्नक्षत्रान्तरस्वरूपंसूत्रत्रयेणाह-उत्तरे त्यादि कण्ठ्यम् / नक्षत्रवन्तश्चद्वीपाः समुद्राश्चेति समुद्रद्विस्थानकमाह- अंतोण मित्यादि, अन्तः- मध्ये मनुष्यक्षेत्रस्य मनुष्योत्पत्त्यादिविशिष्टाकाशखण्डस्य पञ्चचत्वारिंशद्योजनलक्षप्रमाणस्य,शेषं कण्ठ्यमिति ।मनुष्यक्षेत्रप्रस्तावाद्भरतक्षेत्रोत्पन्नोत्तमपुरुषाणां नरकगामितया द्विस्थानकावतारमाह-दो चक्कवट्टी त्यादि, द्वौ चक्रेण-रत्नभूतप्रहरणविशेषेण वर्तितुंशीलंययोस्तौ चक्रवर्त्तिनौ, कामभोग त्ति कामौ च- शब्दरूपे भोगाश्च- गन्धरसस्पर्शाः कामभोगाः, अथवा काम्यन्त इति कामा मनोज्ञा इत्यर्थः ते च ते भुज्यन्त इति भोगाश्च- शब्दादय इति कामभोगा न परित्यक्तास्ते यकाभ्यां तौ तथा कालमासे त्ति कालस्य- मरणस्य मासः उपलक्षणं चैतत्पक्षाहोरात्रादेस्ततश्च कालमासे, मरणावसर इति भावः, कालं मरणं कृत्वा अधःसप्तम्यां पृथिव्याम्, तमस्तमायामित्यर्थः, अधोग्रहणं विना सप्तमी उपरिष्टाच्चिन्त्यमानारत्नप्रभाऽपि स्यादित्यधोग्रहणम्, अप्रतिष्ठाने नरके पञ्चानां मध्यमे नैरयिकत्वेनोत्पन्नौ, सुभूमोऽष्टमो ब्रह्मदत्तश्च द्वादशः, तत्र च तयोस्त्रयस्त्रिंशत्सागरोपमाणि स्थितिरिति / नारकाणां चासङ्ख्येयकालाऽपि स्थितिर्भवतीति भवनपत्यादीनामपि तां दर्शयन् पञ्चसूत्रीमाह असुरिंदवज्जियाणं भवणवासीणं देवाणं देसूणाइंदो पलिओवमाइंठिती पन्नत्ता, सोहम्मे कप्पे देवाणं उक्कोसेणं दो सागरोवमाई ठिती पन्नत्ता, ईसाणे कप्पे देवाणं उक्कोसेणंसातिरेगाइंदो सागरोवमाइंठिती पन्नत्ता, सणंकुमारे कप्पे देवाणं जहन्नेणं दो सागरोवमाई ठिती पन्नत्ता, माहिंदे कप्पे देवाणं जहन्नेणं साइरेगाइंदोसागरोवमाइं ठिती पन्नत्ता॥सूत्रम् 113 // पूर्वभाद्रपद० (मु०)। द्वितीयमध्ययन द्विस्थानम्, चतुर्थीद्देशक: सूत्रम् 113-118 भवनवास्यादिस्थिति:, कल्पस्त्रियः, तेजोलेश्याः, | कल्पे | परिचारणा, त्रसस्थावरकायनिर्वतिता: पुदलचयनाद्याः, द्विप्रदेशिकाद्या द्विगुणरूक्षान्ताः पुद्रलाः , (निषेकादिलक्षणम्) // 178 //